________________
ललितविस्तरासंस्कृतटीका
समाधानम-व्यतिरेकतोऽर्थान्तरोपन्यासेनाह-अविज्ञातगुणे= अनिर्णीतज्वराद्यपशमस्वभावे चिन्तामणौ, चिन्तारत्नोचितपूजाद्यनुष्ठानरूपः प्रयत्नः-क्रिया न भवति. यथा हि चिन्तामणौ ज्ञातगुण एव प्रयत्नस्तथा श्रुतेऽपीति ज्ञानपूर्विकैव फलवती क्रियेति,
प्रश्न: चिन्तामणिश्चिंतामणित्वादेव समीहित-फलदः स्यात् किं तत्रोक्तयत्नेनेति ?
प्रत्युत्तरम् अन्यथा गुणज्ञानाभाववत्त्वेन प्रयत्नाभावे चिन्तामणेरपि-आस्तां श्रुतज्ञानात्, प्रार्थितपरमैश्वर्यादिसिद्धिव,
-गुणज्ञानानन्तरं प्रयत्नस्ततः समीहितसिद्धिरित्येनं विषयं द्रढ्यतिबुद्धिमतां प्रेक्षारूपचक्षुषो विषयत्वादेतत्प्रत्यक्षम् , यदुत 'ज्ञानपूर्वः सर्वो यत्नः समीहितसिद्धिरूपफलदः, परन्तु बलीवई समपृथग्जनस्य सदाऽपि, असंवेदनविषयत्वेन एकान्ततःअविषय एव.
शङ्का=पुनः कीदृग्-विवेकवस्तु ! . समाधानम् एष विवेकः, षष्टितन्त्रादि-योगशास्त्राणां परमरहस्यरूपः परमगर्भः, यत इदं विवेकवस्तु, तैस्तैर्वक्ष्यमाणचारुशब्दैः-सत्योदारार्थगर्भितैर्ध्वनिभिरभिहितं ।
(१) इदं विवेकवस्तु, कैश्चिन्मोक्षाध्वदुर्गग्रहणम् यथाहि कस्यचित्क्वचिन्मार्गे तस्कराग्रुपद्रवे दुर्गग्रहणमेव परित्राणं तथा मोक्षाध्वनि रागादिरूपस्तेनोपद्रवे विवेकग्रहणमेव,
(२) तमोग्रन्थिभेदानन्द इति चान्यैः =अनादिकालीनाज्ञानाविद्यारूपं तम एव प्रन्थिअभेद्यप्रन्थिः प्रागभूत् , यदा ज्ञानविवेकरूपदिव्यप्रकाशद्वारा सावधिक-भोजन-भोगजन्यानन्दनिवारणपूर्वक-तमोग्रन्थिभेदेन जन्य-निरवधिकानन्दस्तु विवेकद्वारेवेति, अभिहितं चान्यैः,
(३) गुहान्धकारालोककल्पमपरैः एतद्विवेकग्रहणं, अविद्यारूपतमोभृत-गुहारूप आत्माऽस्ति, तद्गुहान्तरन्धकारध्वंसक-श्रुतार्थ-विचाररूप-ज्वलत्-प्रकाशरूप-विवेकोऽस्ति, तत्रात्मगुहागतलोकोत्तस्समृद्धि दृश्यते कथं तमस्तिष्ठेत् ? ।
(४) भवोदधिद्वीपस्थानं चान्यैरिति एष विवेकः-भवसागरे निर्भय-विश्रामायैक-द्वीपसमस्थान-शास्त्रान्तरीयैरन्यैः कथ्यते, सागरमध्ये प्रमतो जीवस्य यदि कोऽपि द्वीपो मिलेतदा तस्य, आश्वासनाय, आनन्दाश्चर्य समो लगति, तत्रान्नजलादिकं प्राप्यते, काचिन्नौकाऽऽगच्छेत्तदा सागरास्पारं गन्तुं शक्यता वर्तते, एवं श्रुतार्थबोधसम्प्राप्त्या महाऽऽश्वासो लभ्यते, शुभभावना
१८