________________
ललितविस्तरासंस्कृतटीका
प्रश्नः अत्रापि कथमेकान्तः ( नियमः)
समाधानम् मोक्षं प्रति श्रुतधर्मवृद्धिरवन्ध्यममोघ कारणं मोक्षश्रुतधर्मवृद्धिद्वयस्य कार्यकारणभावोऽस्ति मोक्षरूपफले व्यभिचारो-विसंवादः, फलान्तरभावापेक्षया (मोक्षभिन्नमन्यत्फलं न भवतीति ) अथवा निष्फलता-सर्वथा फलरहितत्वापेक्षया न भवतीति.
____ अस्यैव-मोक्षफलस्यैव, प्रकृष्ट-सर्वज्ञोपज्ञ श्रुतधर्मस्य वा असङ्गगत्वसिद्धये कथयति, रागद्वेषमोहरूपसङ्गस्याभावेन च, मोक्षफलं सर्वैरेव मुमुक्षुभिः प्रतीयते इति एवं श्रुतधर्मवृद्धेः फलसिद्धिमभिधाय पुनः श्रुतधर्मवृद्धिरूपकार्य प्रति श्रुतवृद्धिप्रार्थनारूप-शुद्धपरिणामप्रतिपत्तिः कारणं, श्रुतधर्मवृद्धेरेव कारणसिद्धिकथनं ।
तथा च पुनः श्रुतधर्मवृद्धिविषयकाशंसारूपं प्रशस्तपरिणामोऽत्यर्थ स्मरणीयः । प्रश्नः कीदृगू-अस्मिन् विषये को दृष्टान्तः !
समाधानम् यथा शालिबीजस्य पुनः पुन निक्षेपणं शालिरूपफलस्य हेतुः, तथाहिश्रतधर्मवृद्धिप्रार्थनान्यायेन वारंवारं शालिबीजारोपणस्य वृद्धितः शालिवृद्धिः, प्रत्यक्षा.
दान्तिकत्वं-दृष्टान्ते घटना=एवं शालिवृद्धिप्रकारेण श्रुतस्तवे, आशंसापौनः पुन्याद् श्रुतवृद्धिरूपेष्ट-सिद्धिः, शालिबीजारोपणदृष्टान्ताऽन्यथाऽनुपपत्त्या ( अर्थापत्या ) सहकारिकारणं विवेकग्रहणं जलं ज्ञेयं-विवेकग्रहणमर्थात् , सम्यगाऽवधारण-विचारेण, श्रुतस्य-विवेकस्य वा ग्रहणं स्वीकारः ।
श्रतरूपशालिवृद्धौ विवेकग्रहणरूपजलं कथ्यते तत्र विवेकः कीदृशः, तस्य वैशिष्टयं स्तौति. " अतिगम्भीरोदार एष आशयः" प्रभूतश्रतावरणक्षयोपशमजन्यत्वेन (लभ्यत्वेन ) अतिअनुत्तानः ( अगाध-गम्भीरः नीचैर्यस्य सीमा नास्ति ) उदारश्च सकलसुखलाभसाधकोऽयं विवेकरूपाशयः-परिणामः,
विवेकादेव नतु सूत्रमात्रादपि, संवेगामृतास्वादनं-संवेगो धर्माद्यनुरागो, यदुक्तं-"तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते, साधौ सर्वग्रन्थसन्दर्भहीने, संवेगोऽसौ निश्च लोऽनुरागः" सुदेवसुगुरुसुधर्मानुरागो निश्चलः संवेग उच्यते, एतादृशसंवेगसुधाऽनुभवो भवति. प्रश्नः क्रियेव फलदा न तु ज्ञानं,
“क्रियेव फलदा पुंसां, न ज्ञानं फलदं मतम् । . यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥" किं विवेकग्रहणेन.