________________
ललितविस्तरासंस्कृतटीका
टी०.... प्रणिधानमित्यादि, एतत् 'श्रुतधर्मों वर्धताम्' इत्येवं श्रुतधर्मवृद्धिविषयकाभिलाष-आशंसारूपं प्रणिधानं, कीगित्याह-सर्वेच्छोपरमरूपानाशंसारूपभावपर्यायकार्यस्य कारणं-प्रणिधान ।
कथमित्याह-'मोक्षप्रतिबन्धेन' मोक्षं प्रति हीद प्रार्थनं, सचानिच्छारूपः प्रतिबन्धः (मोक्षविषयिकी ममता) नन्वप्रतिवन्धसाध्यो मोक्षः कथमित्थमपि तत्र प्रतिवन्धः श्रेयानित्याह 'अप्रतिवन्धः' अप्रतिवन्धसदृशः 'एषः' मोक्षविषयप्रतिवन्धः प्रार्थनारूपः ।
कुत इत्याह-'असङ्गफलसंवेदनाद्' असङ्गस्य राग-द्वेषमोहाद्यविषयीकृतस्य फलस्य, आशंसनीयस्य (श्रुतधर्मवृद्धिरूपाशंसनीयस्य) मोक्षस्य वा सर्वेच्छोपरमस्य संवेदनाद्-अनुभवाद्, अनीदृशफलालम्बनं हि प्रणिधानं प्रतिबन्धः, परमपुरुषार्थलाभोपघातित्वात् ।
( इदं धर्मों वर्धतां ' इति कथनं श्रतधर्मवृद्धिरूपाशंसारूपं प्रणिधानं, सर्वाशंसाभङ्गबीजं, यतः-एषा प्रार्थनामोक्षप्रतिबद्धाऽस्ति, एष मोक्षप्रतिबन्धःमोक्षममत्वरूपं, यतोऽस्मिन्नसंगवस्फलानुभवो भवति, इदं प्रणिधानं अनाशंसाभावबीजमस्त्यतः सर्वज्ञोपज्ञश्रतधर्मवृद्धितो मोक्षो भवति, यत एतन्मोक्षस्य सिद्धकारणमस्ति, अतः मोक्षफलसञ्जनेन, न, विसंवादोऽस्ति, रागद्वेषमोहसंगस्यात्यन्तिकाभावद्वारेवैतत्फलं प्रतीयते. )
____ननु कथमयं नियमो ! यदुतेदं प्रणिधानमनाशंसाभावबीजमित्याह-यथोदितश्रुतधर्मवृद्धेः सर्वज्ञोपज्ञश्रुतधर्मप्रकर्षात् , 'मोक्षः' अनाशंसारूपो यतो भवतीति गम्यते, अत्रापि कथमेकान्तः ? इत्याह-'सिद्धत्वेन' श्रुतधर्मवृद्धे र्मोक्षं प्रत्यवन्ध्यहेतुभावेन, इदमेव भावयति 'न' नैव इह' मोक्षलक्षणे फले 'व्यभिचारो' विसंवादः, फलान्तरभावतो निष्फलतया वा श्रुतधर्मवृद्धेरिति, अस्यैवासङ्गत्वसिद्धयर्थमाह-'असङ्गेन च' रागद्वेषमोहलक्षणसङ्गाभावेन, 'एतत् ' मोक्षफलं 'संवेद्यते' सर्वैरेव मुमुक्षुभिः प्रतीयते इति, इत्थं श्रुतधर्मवृद्धेः फलसिद्धिमभिधाय अस्या एव हेतुसिद्धिमाह-' एवम् ' उक्तप्रकारेण 'चः' पुनरर्थे भिन्नक्रमश्च सद्भावारोपणात् ' अतवृद्धिप्रार्थनारूपशुद्धपरीणामस्याङ्गीकरणात् तद्वृद्धिश्च श्रुतधर्मवृद्धिः पुनर्भवतीति गम्यते, एतद्भावनायैवाह-'शुभं'-प्रशस्तं 'एतत् ' पुनः श्रुतधर्मवृद्धयाशंसालक्षणं 'अध्यवसानं ' परिणामः ‘अत्यर्थ' अतीव, कीदृशमित्याह
-प्रश्नः कथमय नियमो ? यदुत-इदं प्रणिधानं, अनाशंसाभाव-बीजम्-यत्र यत्र विवक्षितं यदिदं प्रणिधानं तत्र तत्रानाशंसाभावबीजं भवतीति व्याप्तिः कथं ?
समाधानम् सर्वज्ञप्रणीतश्रुतधर्मस्य प्रकर्ष-उत्कर्षात्-अर्थात् , सर्वोत्कृष्ट-सर्वज्ञोक्त-श्रतधर्मतः, अनाशंसारूप-मोक्षो भवत्यतः पूर्वोक्तो नियमोऽस्ति, ।