________________
ललितविस्तरासंस्कृत टीका
66
66
विजयसिद्धिविनियोगा एवं न पुनः श्रुतार्थज्ञानमात्रम् " अत्र" श्रुतावबोधे सद्-अव्यभिचारि लिङ्ग - गमको हेतु:, किमेतावदेव नेत्याह - " तदुभाववृद्धिश्च " बोधभाववृद्धिश्च, काव्यभावज्ञवत्" काव्यभावज्ञस्येव काव्ये इति दृष्टान्तः, “अत एव " यथावदनवबोधादेव "हिः” स्फुटं “ महामिध्यादृष्टेः ” उक्तलक्षणस्य प्राप्तिरध्ययनादिरूपस्य श्रुतस्याप्राप्तिः, कुत इत्याह'तत्फलाभावाद् ” यथावदवबोधरूपफलाभावात्, किंवदित्याह - " अभव्यचिन्तामणिप्राप्तिवत् ” यथा हि अतिनिर्भाग्यतयाऽयोग्यस्य चिन्तामणिप्राप्तावपि तद्ज्ञानत्वाभावान्न तत्फलं, तथा अस्य श्रुतप्राप्तावपीति, भवतु नामैवं महामिध्यादृष्टेः, मिथ्यादृष्टस्तु का वार्त्तेत्याह - "मिथ्यादृष्टेस्तु” धर्म्मबीजाधानाद्यर्हस्य " भवेत् " स्यात्, " द्रव्यप्राप्तिः” भावश्रुतयोग्यद्रव्यश्रुतव्याप्तिः, की स्यात् द्रव्यप्राप्तिः १ - " आदरादिलिङ्गा" "आदर: करणे प्रीतिरित्यादिलिङ्गा “ भोगवती ” सम्यक्श्रुतार्थोपयोगरहिता, ननु मिध्यादृष्टिर्महामिध्यादृष्ट्योरनाभोगाद्यविशेषात्कः प्रतिविशेष इत्याह - " न तु " न पुनः अस्य " मिथ्यादृष्टेः " अस्थान एव " मोक्षपथप्रतिपन्थिन्येव भावे 'अभिनिवेशः " आग्रहः, स्थानाभिनिवेशस्यापि तस्य भावात्, कुत एवमित्याह" भव्यत्वयोगाद् ” भावश्रुतयोग्यत्वस्य भावाद् अस्थानाभिनिवेश एव हि न, तदभावाद्, अस्यैव हेतोः स्वरूपमाह
अना-
66
१३४
66
" तच्च" तत्पुनर्भव्यत्वं " एवलक्षणम् " अस्थाने स्थाने चाभिनिवेशस्वभावं इत्यनयोर्विशेषो ज्ञेयः, महामिध्यादृष्टेः, प्राप्तिरप्यस्यासंभविनी कुतस्तस्य फलचिन्तेत्याह - " प्राप्तं " लब्धं, चकार उक्तसमुच्चये, एतत् श्रुतम् " अभव्यैरपि " एकान्तमहामिध्यादृष्टिभिः किं पुनरन्यमिध्यादृष्टिभिः " असकृद् " अनेकशः, कुत इत्याह- " वचनप्रामाण्यात्' " सर्वजीवानामनन्तशो ग्रैवेयको पपातप्रज्ञापनाप्रामाण्याद् एवं तर्हि तत्फलमपि तेषु भविष्यतीत्याह - " न च " नैव " ततः” श्रुतप्राप्तेः “ किश्चित् ” फलमिति गम्यते, कुत इत्याह - " प्रस्तुतफललेशस्यापि ' प्रकृत यथावद्बोधरूपफलांशस्यापि, आस्तां सर्व्वस्य " असिद्धेः " अप्राप्तेः तत्सिद्भावल्प कालेनैव सर्वमुक्तिप्राप्तिप्रसङ्गात
""
"
“सिद्धत्वेनेति” सिद्धत्वेन फलाव्यभिचारप्रतिष्ठितत्व त्रिकोटिपरिशुद्धिभेदेन, इदमेव न ह्यतो विधिप्रवृत्त इत्यादिना वाक्यत्रयेण यथाक्रमं भावयति, सुगमं चैतन्नवरं - "विधिप्रतिषेधानुष्ठानपदार्थाविरोधेन चेति " विधिप्रतिषेधयोः कषरूपयोः अनुष्ठानस्य-छेदरूपस्य पदार्थस्य च - तापविषयस्याविरोधेन-पूर्वापराबाधया वर्त्तते, चकार उक्तसमुच्चयार्थः, अमुमेवाविरोघ त्रिकोटिपरिशुद्धिलक्षणं द्वाभ्यां वचनाभ्यां दर्शयति - "स्वर्गेत्यादिना " सुगमं चैतत् किन्तु स्वग्र्गार्थिना तपोदेवतापूजनादि, केवलार्थिना तु ध्यानाध्ययनादि कर्त्तव्यं, “असपत्नो योग इति” असपत्नः, परस्पराविरोधी स्वस्वकालानुष्ठानाद्योगः - स्वाध्यायादिसमाचारः.
“ऐतिह्य चैतदिति” सम्प्रदायश्चायं यदुत तृतीया स्तुतिः श्रुतस्येति ॥ ॥ इति श्रीमुनिचन्द्रसूरिविरचितायां ललितविस्तरापञ्जिकायां श्रुतस्तवः समाप्तः ॥