________________
ललितविस्तरासंस्कृतटीका
१३३ न्यायेन पौनःपुन्येन शालिबीजारोपणस्य वृद्धिस्तद्वृद्धिः-शालिवृद्धिः, “ एवं" शालिवृद्धिप्रकारेण " इहापि " श्रुतस्तवे " अतः " आशंसापौनःपुन्याद् " इष्टवृद्धिः " श्रुतवृद्धिरिति, अथ शालिबीजारोपणदृष्टान्ताक्षिप्तं सहकारिकारणं जलमपि प्रतिपादयन्नाह-" एवम् " अनन्तरोक्तप्रकारेण " विवेकग्रहणं" विवेकेन-सम्यगावधारणविचारेण ग्रहणं-स्वीकारः श्रुतस्य विवेकस्य वा ग्रहणं, तत्किमित्याह-'अत्र" श्रुतशालिवृद्धौ “जलम्" अम्भः, अथ विवेकमेव स्तुवन्नाह"अतिगम्भीरोदारः" प्रभूतश्रुतावरणक्षयोपशमलभ्यत्वादत्यनुत्तान 'उदारश्च सकलसुखलाभसाधकत्वाद् “एष" विवेकरूप “आशयः" परिणामः,
"अत एव" विवेकादेव न तु सूत्रमात्रादपि " संवेगामृतास्वादनं” सवेगो-धर्माधनुरागो, यदुक्तम्-" तथ्ये धर्मे ध्वस्तहिंसाप्रबन्धे, देवे रागद्वेषमोहादिमुक्ते साधौ सर्वग्रन्थसंदर्भहीने, संवेगोऽसौ निश्चलो योऽनुरागः ॥ १॥" स एवामृत-सुधा तस्याऽऽस्वादनम्अनुभवो, ननु क्रियेव फलदा न तु ज्ञानं, यथोक्त-" क्रियैव फलदा पुंसां, न ज्ञानं फलदं मतम् । यतः स्त्रीभक्ष्यभोगज्ञो, न ज्ञानात्सुखितो भवेद् ॥१॥” इति, किं विवेकग्रहणेनेत्याशङ्कय व्यतिरेकतोऽर्थान्तरोपन्यासेनाह-"न" नैव " अविज्ञातगुणे” अनिर्णीतज्वराद्युपशमस्वभावे " चिन्तामणौ” चिन्तारत्ने " यत्नः" तदुचितपूजाद्यनुष्ठानलक्षणो, यथा हि चिन्तामणौ ज्ञातगुण एव यत्नस्तथा श्रुतेऽपीति ज्ञानपूर्विकैव फलवती क्रियेति, ननु चिन्तामणिश्चिन्तामणित्वादेव समीहितफलः स्यात्, किं तत्रोक्तयत्नेनेत्याह-"न च” नैव “अन्यथा" अज्ञातगुणत्वेन यत्नाभावे “ अतोऽपि” चिन्तामणेरपि आस्तां श्रुतज्ञानात् ' समीहितसिद्धिः " प्रार्थितपरमैश्वर्यादिसिद्धिः, इदमेव द्रढयन्नाह
" प्रकटमिदं " प्रत्यक्षमेतत्, “प्रेक्षापूर्वकारिणां" बुद्धिमतां प्रेक्षाचक्षुषो विषयत्वाचदुत ज्ञानपूर्वः सर्वो यत्नः समीहितसिद्धिफलो, व्यतिरेकमाह-"एकान्ताविषयः" सदाप्यसंवेद्यत्वात् , "गोयोनिवर्गस्य" बलीवईसमपृथग्जनस्य, पुनः कीदृगित्याह-"परमगर्भः" परमरहस्यं, "एष" विवेको “योगशास्त्राणां" षष्टितन्त्रादीनां, कुतो ?- यतः अभिहितमिदं-विवेकवस्तु “ तैस्तैः" वक्ष्यमाणैः "चारुशब्दैः" सत्योदारार्थध्वनिभिः “मोक्षाध्वेत्यादि" प्रतीतार्थ वचनचतुष्कमपि, नवरं " मोक्षाध्वदुर्गग्रहणमिति" यथा हि कस्यचित्वचिन्मार्गे तस्करायुपद्रवे दुर्गग्रहणमेव परित्राणं, तथा मोक्षाध्वनि रागादिस्तेनोपद्रवे विवेकग्रहणमिति, आह-श्रुतमात्रनियतं विवेकग्रहणं, तत्किमस्मादस्य विशेषेण पृथग् ज्ञापनमित्याशङ्कयाह
___ "न (नच)" नैव "एतत्" श्रुतं कथश्चित्पाठेऽपि "यथावत्" यत्प्रकारार्थवद्याशार्थमित्यर्थः, "अवबुध्यते" जानीते "महामिथ्यादृष्टिः" पुद्गलपरावर्त्ताधिकसंसारः, कथमित्याह" तद्भावाच्छादनाद् ” बोधभावाऽऽवरणात् , दृष्टान्तमाह-" अहृदयवद् ” अव्युत्पन्न इव " काव्यभावमिति” शृङ्गारादिरससूचकवचनरहस्यमिति, अतः कथं श्रुतमात्रनियतं विवेकग्रहणमिति, कुत इदमित्थमित्याह-तत्प्रवृत्त्यायेव " हिः” यस्मात् तत्रावबुद्धे श्रुतार्थे प्रवृत्ति