Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 489
________________ ललितविस्तरासंस्कृतटीका १४१ -अथ शास्त्रकारः 'सुयस्स भगवओ करेमि काउसग्गं' इत्यादि सूत्रस्य व्याख्या ससंगति-विवेचनं करोतीति एवं प्रणिधानं कृत्वा, एतत्पूर्विका क्रिया फलायेति श्रुतत्यैव कायोत्सर्ग-संपादनार्थ पठति वा पठन्ति वा, 'सुयस्स भगवओ करेमि काउसग्गमित्यादि' यावद् बोसिरामि । व्याख्या पूर्ववत् , नवरं 'श्रुतस्य ' इति-प्रवचनस्य, सामायिकादि चतुर्दशपूर्वपर्यन्तस्य, 'भगवतः ' समग्रेश्वर्यादि-युक्तस्य । अर्थात् 'श्रुतधर्मों वर्धताम् , एवं श्रुतधर्मविषयकं प्रणिधान-चित्तस्यैकाग्रतां कृत्वा ( पूर्व प्रणिधानं कृतं ) प्रणिधानपूर्विका क्रिया फलजनिका भवति, केवला क्रिया न फलजनिका, केवलं प्रणिधानमपि न फलजनकं, प्रणिधानपूविका क्रियैव फलायेति, ___ अत्र क्रियारूपेणैव कायोत्सर्ग कर्त=श्रतस्यैव कायोत्सर्ग-सम्पादनार्थं पठति पठन्ति वा 'सुयस्स भगवओ करेमि काउसम्ग ' मित्यादि यावद् ‘वोसिरामि' । व्याख्या पूर्ववत् । क्रिया, फलं ददात्यपि, प्रणिधानपूविका चेचदा फलं यच्छेत् , प्रणिधानं यदि न भवेत्तदा क्रियायां, एकाग्रतासहितोपयोगाभावेन कथं फलमुत्पद्यतेति, प्रणिधानपूर्विकैव क्रिया फलदा, प्रणिधानकृतं कृतमिति न्यायेन, ____ नवरं 'श्रुतस्य ' इति प्रवचनस्य, सामायिकसूत्र-' करेमि भंते' रूपसूत्रत आरम्य चतुर्दशपूर्व-पर्यन्तस्य, 'भगवतः' समप्रैश्वर्यादियुक्तस्य, शुद्धत्व-सिद्धत्वापेक्षया, समग्रैश्वर्यादियोगः। श्रुतआगमेऽस्मिन्-समग्रैश्वर्यादि-योगस्तु श्रुतस्य, शुद्धत्व-सिद्धत्वकारणेनाऽस्ति, अर्थाद् , श्रुते फलाव्यभिचारत्वेन, प्रतिष्ठितत्वेन, त्रिकोटिपरिशुद्धत्वेन सिद्धत्वमस्ति, एतद्द्वस्तु, जैनेतरशास्त्रान्तरेषु नास्ति, तत इतरशास्त्रेभ्यः श्रुतस्यैश्वर्यम् , ईश्वरत्वं, ईशितृत्वम् , प्रभुत्वमस्ति, इदमेव-सिद्धत्वं 'न यतो विधिप्रवृतः' इत्यादिना वाक्यत्रयेण यथाक्रम-फलाव्यभिचार-प्रतिष्ठितत्वं-त्रिकोटि-परिशुद्धिं भावयति __ सिद्धत्वरूपफलाऽव्यभिचार:=(१) श्रुतस्य भगवत्त्वेन-सिद्धत्वेन समप्रैश्वर्यादियुक्तत्वकारणेन, विधिपूर्वकः प्रवृत्त:=प्रवृत्ति-क्रियावान् , फलेन नहि कञ्च्यते-फलावञ्चको योगः-श्रुतयोगो भवति. (२) सिद्धत्वरूपप्रतिष्ठितत्व एतेन-श्रुतेन सह सर्वे प्रवादाः-नयवादा ( दर्शनानि ) व्याप्ताः-व्यापकतावन्तः, यतः-श्रुतं सर्वनयान् मन्यते, इतरदर्शनं, एकैकं नयं गृह्णाति. (३) सिद्धत्वरूप-त्रिकोटि परिशुद्धत्वम् विधिप्रतिषेधानुष्ठानपदार्था-विरोधेन-चेति

Loading...

Page Navigation
1 ... 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550