Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra
View full book text ________________
ललितविस्तरासंस्कृतटीका त्वेन प्रवचनाधिकरणं तीथमुच्यत एव) धर्माधारः-प्रवचनधारःचतुर्वर्णःसंघः 'न धर्मो धार्मिकै विना, यं तीर्थ कथयन्ति पावनतयेत्यभियुक्तोक्तेः' यथा धृतमानयेत्युक्ते घृतं साक्षान्नानीयते, धृतपात्रे धृतमानीयते, तथैव धर्म इत्युक्ते श्रमणश्रावकयोधर्माधारतयैवा-भिन्नत्वेन धर्मधर्मिणोरभेदात् धर्मिधर्मप्रधानौ तीर्थत्वेन भण्येते, अर्थात्प्रवचनप्रवचनाधारचतुर्विधसंघरूपधर्मतीर्थकरणशीला धर्मतीर्थकरास्तान, अर्हतःकीर्तयिष्यामीति, अर्हतो द्वितीयविशेषणम् ।
(३) 'जिनान्' तथा सगादिजेतारो जिनास्तान् , पूर्वोक्त विशेषणद्वयं यथा, तथा 'रागद्वेषमोहरूपभावशत्रणां' (आत्मगुणघातिकर्मादिशत्रूणां) मिथो जन्यजनकभावेन स्थितानां रागादिकर्मादिशत्रणां मूलतः सर्वथा विजेतारः-विजयकर्तारो जिनास्तान् अर्हतःकीर्तयिष्यामीति तृतीयविशेषणम् ।
(४) तथाऽशोकाद्यष्टप्रातिहार्यादिरूपां पूजामहन्तीत्यहहन्तस्तानर्हतः, अशोकप्रभृत्यष्टप्रातिहार्यादिरूपां विशिप्टपूजामहन्तीत्यर्हन्तः विशिष्टपूजाया योग्यत्वेनार्थेन विशेषणमप्यत्र विशेष्यवाचकं पदं ज्ञेयम्,
"चिहनैव्यक्त भवेद्व्यक्ते ऑतिशब्दोऽपि वाचकः" अ.चि., चिहनै विशेषणे व्यक्तैः निःसंदेहै जात्यभिधायकोऽपि शब्दो व्यक्ते चिको भवेत् व्यक्ते मतां यातीत्यर्थः, लोकोद्द्योतकरादिभिःविशेषणैः, अर्हत्त्वजात्यभिधायकोऽर्हच्छब्दो ऋषभोदिव्यक्ते चिको भवेत् )
(५) केवलिनः केवलज्ञानमेषां विद्यते इति केवलिनस्तान् -अर्हतःकीर्तयिष्यामि, कीर्तयिष्यामि' इति स्वनामभिः-क्रमशःऋषभादिनामानि गृहीत्वा स्तोष्ये-तानहतः स्तुतिविषयीकरिप्येऽहम् इत्यर्थः । अत्रेदं स्मरणीयम्, (१) अर्हत इति विशेष्यवाचकं पदम्, .. (२) कीर्तियिष्यामीति क्रियावाचकं पदम्, :..: . (३) लोकस्योद्घोतकरानिति. प्रथमं विशेषणपदम् यदः वचनातिशयदर्शकं, (४) 'धर्मतीर्थकरानिति' द्वितीयं विशेषणपदम् यत् पूजातिशयद्योतकं वर्तते, (५) 'जिनानि' ति तृतीयं विशेषणपदं, यदपायागमातिशयसूचकं विद्यते, (६) 'केवलिनः' इति चतुर्थ विशेषणपदं, यज्ज्ञानातिशयज्ञापकं ज्ञायते, (७) 'चतुर्विशति' इति संख्यावाचकं विशेषणपदम्,
Loading... Page Navigation 1 ... 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550