Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 454
________________ ललितविस्तरासंस्कृतटीका पं०..."धर्माय" धर्मनिमित्तमित्यर्थो "हीनकुलादिप्रार्थनं" हीनं-नीचं विभवधनादिभिर्यत्कुलम्-अन्वय आदिशब्दात्कुरूपत्वदुर्भगत्वानादेयत्वादिग्रहः, भवान्तरे तेषां प्रार्थनम्-आशंसनं, किमित्यह-" मोहो” मोहगर्भ निदानं, कुत इत्याह-" अतद्धेतुकत्वाद् " अविद्यमानास्ते हीनकुलादयो हेतवो यस्य स तथा तद्भावस्तत्त्वं तस्मात् , अहीनकुलादिभावभाजो हि भगवन्त इवाविकलधर्मभाजनं भव्या भवितुमर्हन्ति नेतरे इति, उक्तं च-" हीनं कुलं बान्धववर्जितत्वं, दरिद्रतां वा जिनधर्मसिद्धथै । प्रयाचमानस्य विशुद्धवृत्तेः, संसारहेतुर्गदितं निदानम् ॥१॥" प्रकारान्तरेणापीदमाह-"ऋद्धयभिष्वङ्गतः" पुरन्दरचक्रवर्त्यादिविभूत्यनुरागेण "धर्मप्रार्थनापि" नूनं धाराधनमन्तरेणेयं विभूतिर्न भविष्यतीत्याशया धर्माशंसनमपि, किं पुनहींनकुलादिप्रार्थनेत्यपिशब्दार्थः, किमित्याह-“मोहः” उक्तरूपः, कुत इत्याह-"अत तुकत्वाद्” अविद्यमान उपसर्जनवृत्त्याऽऽशसितो धर्मों हेतुर्यस्याः सा तथा तद्भावस्तत्त्वं तस्मादेव अनुपादेयतापरिणामे, नैवोपहतत्वेन धर्मस्य ततोऽभिलषितऋद्धयसिद्धेः यत एवं ततः " तीर्थकरेऽपि" अष्टमहाप्रातिहार्यपूजोपचारभाजि प्राणिविशेषे, किं पुनरन्यत्र पुरन्दरादौ विषयभूते ? “एतत्" प्रार्थनमेव ऋद्धयभिष्वङ्गणैव, यथाऽयं भुवनाद्भुतभूतविभूतिभाजनं भुवनैकप्रभुः प्रभूतभक्तिभरनिर्भरामरनिकरनिरन्तरनिषेव्यमाणचरणो भगवांस्तीर्थकरो वर्त्तते, तथाऽहमप्यमुतस्तपःप्रभृतितोऽनुष्ठानाद्भूयासमित्येवंरूप न पुनर्यन्निरभिष्वङ्गचेतोवृत्तर्द्धर्मादेशोऽनेकसत्त्वहितो निरुपमसुखसञ्जनकोऽचिन्त्यचिन्तामणिकल्पो भगवानहमपि तथा स्यामित्येवंरूपं निषिद्धं-निवारितं दशाश्रुतस्कन्धादौ तदुक्तं-" एत्तो य दसाईसं तित्थयामि वि नियाणपडिसेहो । जुत्तो भवपडिबन्धं साभिस्संग तय जेणं ॥ १ ॥ जं पुण निरभिस्संग धम्माएसो अणेगसत्तहिओ। निरुवमसुहसंजणओ अउव्वचिन्तामणिक्कप्पो ॥२॥” इत्यादि, “अत एव" ऋद्धथभिष्वङ्गतो धर्मप्रार्थनाया मोहत्वादेव " इष्टभावबाधकृत्" इष्टो भावो निर्वाणानुबन्धी कुशलः परिणामस्तस्य बाधकृत्व्यावृत्तिकारि “एतत" प्रकृतनिदानं कुत इत्याह " तथेच्छाया एव" धर्मोपसर्जनीकरणेन ऋद्धथभिलाषस्यैव " तद्विघ्नभूतत्वाद् " इष्टभावविबन्धनभूतत्वाद्, एतत्कुत इत्याह-" तत्प्रधानतया ” ऋद्धिप्राधान्येनेतरत्र-धर्मे “ उपसर्जनबुद्धिभावात् " कारणमात्रत्वेन गौणाध्यवसायभावाद्, इदमेव विशेषतो भावयन्नाह"अतत्त्वदर्शनमेतद्" अपरमार्थावलोकनं विपर्यास इत्यर्थः, एतत्-प्रकृतनिदानं, कीदृगित्याह" महदपायसाधन" नरकपाताद्यनर्थकारणं, कुत इत्याह-"अविशेषज्ञता" सामान्येन गुणानां पुरुषार्थोपयोगिजीवाजीवधर्मलक्षणानां दोषाणां-तदितररूपाणां तदुभयेषां च विशेषो विवरको विभाग इत्येकोऽर्थस्तस्यानभिज्ञता-विपरीतबोधरूपाऽर्थकृत्यनर्थप्राप्तिहेतुतया हिंसानृतादिवत् " हिः” यस्मात् “गर्हिता" दूषिता, ननु कथमिदं प्रत्येयमित्याशङ्कयाह "पृथग्जनानामपि” पृथक्-तथाविधालौकिकसामयिकाचारविचारादेर्बहिःस्थिता बहुविधा बालादिप्रकारा जनाः-प्राकृतलोकाः पृथग्जनास्तेषामपि, किं पुनरन्येषां शास्त्राधीनधियां सुधिया

Loading...

Page Navigation
1 ... 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550