________________
ललितविस्तरासंस्कृतटीका पं०..."धर्माय" धर्मनिमित्तमित्यर्थो "हीनकुलादिप्रार्थनं" हीनं-नीचं विभवधनादिभिर्यत्कुलम्-अन्वय आदिशब्दात्कुरूपत्वदुर्भगत्वानादेयत्वादिग्रहः, भवान्तरे तेषां प्रार्थनम्-आशंसनं, किमित्यह-" मोहो” मोहगर्भ निदानं, कुत इत्याह-" अतद्धेतुकत्वाद् " अविद्यमानास्ते हीनकुलादयो हेतवो यस्य स तथा तद्भावस्तत्त्वं तस्मात् , अहीनकुलादिभावभाजो हि भगवन्त इवाविकलधर्मभाजनं भव्या भवितुमर्हन्ति नेतरे इति, उक्तं च-" हीनं कुलं बान्धववर्जितत्वं, दरिद्रतां वा जिनधर्मसिद्धथै । प्रयाचमानस्य विशुद्धवृत्तेः, संसारहेतुर्गदितं निदानम् ॥१॥" प्रकारान्तरेणापीदमाह-"ऋद्धयभिष्वङ्गतः" पुरन्दरचक्रवर्त्यादिविभूत्यनुरागेण "धर्मप्रार्थनापि" नूनं धाराधनमन्तरेणेयं विभूतिर्न भविष्यतीत्याशया धर्माशंसनमपि, किं पुनहींनकुलादिप्रार्थनेत्यपिशब्दार्थः, किमित्याह-“मोहः” उक्तरूपः, कुत इत्याह-"अत तुकत्वाद्” अविद्यमान उपसर्जनवृत्त्याऽऽशसितो धर्मों हेतुर्यस्याः सा तथा तद्भावस्तत्त्वं तस्मादेव अनुपादेयतापरिणामे, नैवोपहतत्वेन धर्मस्य ततोऽभिलषितऋद्धयसिद्धेः यत एवं ततः " तीर्थकरेऽपि" अष्टमहाप्रातिहार्यपूजोपचारभाजि प्राणिविशेषे, किं पुनरन्यत्र पुरन्दरादौ विषयभूते ? “एतत्" प्रार्थनमेव ऋद्धयभिष्वङ्गणैव, यथाऽयं भुवनाद्भुतभूतविभूतिभाजनं भुवनैकप्रभुः प्रभूतभक्तिभरनिर्भरामरनिकरनिरन्तरनिषेव्यमाणचरणो भगवांस्तीर्थकरो वर्त्तते, तथाऽहमप्यमुतस्तपःप्रभृतितोऽनुष्ठानाद्भूयासमित्येवंरूप न पुनर्यन्निरभिष्वङ्गचेतोवृत्तर्द्धर्मादेशोऽनेकसत्त्वहितो निरुपमसुखसञ्जनकोऽचिन्त्यचिन्तामणिकल्पो भगवानहमपि तथा स्यामित्येवंरूपं निषिद्धं-निवारितं दशाश्रुतस्कन्धादौ तदुक्तं-" एत्तो य दसाईसं तित्थयामि वि नियाणपडिसेहो । जुत्तो भवपडिबन्धं साभिस्संग तय जेणं ॥ १ ॥ जं पुण निरभिस्संग धम्माएसो अणेगसत्तहिओ। निरुवमसुहसंजणओ अउव्वचिन्तामणिक्कप्पो ॥२॥” इत्यादि, “अत एव" ऋद्धथभिष्वङ्गतो धर्मप्रार्थनाया मोहत्वादेव " इष्टभावबाधकृत्" इष्टो भावो निर्वाणानुबन्धी कुशलः परिणामस्तस्य बाधकृत्व्यावृत्तिकारि “एतत" प्रकृतनिदानं कुत इत्याह
" तथेच्छाया एव" धर्मोपसर्जनीकरणेन ऋद्धथभिलाषस्यैव " तद्विघ्नभूतत्वाद् " इष्टभावविबन्धनभूतत्वाद्, एतत्कुत इत्याह-" तत्प्रधानतया ” ऋद्धिप्राधान्येनेतरत्र-धर्मे “ उपसर्जनबुद्धिभावात् " कारणमात्रत्वेन गौणाध्यवसायभावाद्, इदमेव विशेषतो भावयन्नाह"अतत्त्वदर्शनमेतद्" अपरमार्थावलोकनं विपर्यास इत्यर्थः, एतत्-प्रकृतनिदानं, कीदृगित्याह" महदपायसाधन" नरकपाताद्यनर्थकारणं, कुत इत्याह-"अविशेषज्ञता" सामान्येन गुणानां पुरुषार्थोपयोगिजीवाजीवधर्मलक्षणानां दोषाणां-तदितररूपाणां तदुभयेषां च विशेषो विवरको विभाग इत्येकोऽर्थस्तस्यानभिज्ञता-विपरीतबोधरूपाऽर्थकृत्यनर्थप्राप्तिहेतुतया हिंसानृतादिवत् " हिः” यस्मात् “गर्हिता" दूषिता, ननु कथमिदं प्रत्येयमित्याशङ्कयाह
"पृथग्जनानामपि” पृथक्-तथाविधालौकिकसामयिकाचारविचारादेर्बहिःस्थिता बहुविधा बालादिप्रकारा जनाः-प्राकृतलोकाः पृथग्जनास्तेषामपि, किं पुनरन्येषां शास्त्राधीनधियां सुधिया