________________
ललितविस्तरा संस्कृत टीका
धर्माय ही कुलादिप्रार्थनं मोहः, अतद्धेतुकत्वात्, ऋद्ध्यभिष्वङ्गतो धर्म्मप्रार्थनाऽपि मोह:, अतद्धेतुकत्वादेव ॥ तीर्थकरत्वेऽप्येतदेवमेव प्रतिषिद्धमिति, अत एवेष्टभावबाधकदेतत्,
,
तथेच्छाया एव तद्विघ्नभूतत्वात् तत्प्रधानतयेतरत्रोपसर्जनबुद्धिभावात् अतत्त्वदर्शनमेतत् महदपायसाधनं, अविशेषज्ञता हि गर्हिता
"
पृथग्जनानामपि सिद्धमेतत्, योगिबुद्धिगम्योऽयं व्यवहारः, सार्थकानर्थकचिन्तायां भाज्यमेतत् चतुर्थभाषारूपत्वा तदुक्तं
१०५
"
१४
" भासा असच्चामोसा णवरं भत्तीऍ भासिया एसा । न हुखीणपेज्जदोसा देंति समाहिं च बोहिं च ॥ १ ॥ तप्पत्थणाएँ तहवि य, ण मुसावाओवि एत्थ विष्णेओ । तप्पणिहाणाओ च्चिय तग्गुणओ हंदि फलभावा ॥ २ ॥ चिंतामणिरयणादिहिं, जहा उ भव्वा समीहियं वत्युं । पावंति तह जिणेहिं तेसिं रागादभावेऽवि ॥ ३ ॥ वत्थुसहावो एसो अउवचिन्तामणी महाभागो । थोऊणं तित्थयरे पाविज्जइ बोहिलाभोति ॥४॥ भत्तीऍ जिणवराणं खिज्जन्ती पुवसंचिया कम्मा । गुणपरिसबहुमाणो कम्मवणदवाणलो जेण ॥ ५ ॥” एतदुक्तं भवति - यद्यपि ते भगवन्तो वीतरागत्वादारोग्यादि न प्रयच्छन्ति, तथाप्येवंविधवाक्यंप्रयोगतः
प्रवचनाराधनतया सन्मार्गवर्त्तिनो महासत्त्वस्य तत्सत्तानिबन्धनमेव तदुपजायत इति गाथार्थः ॥ ६ ॥