________________
ललितविस्तरासटीका
(३) विहिता ये, अवदाताः (निर्मलाः) दानशीलादिरूपा भेदास्तेषां भेदाः प्रभेदाः, तद्रूपाः शाखाश्च शाखायाः या शाखाः-उपशाखाः भेदप्रभेदरूपशाखोपशाखाभिः खचितःमिश्रितः ( संयुक्तः ) ( धर्मकल्पतरुः )
(४) निरतिशया (नितरांअतिशयाः) सुरनररूपभवतः प्रभवा-जन्या या सुखसम्पत्तिः सैव प्रसूनानि-पुष्पाणि तैः, आकीर्णो व्याप्तः (धर्मकल्पतरुः)
(५) अनभ्यर्णी कृता दूरीकृता चासौ निखिल (समस्त) व्यसनैर्दुःखैर्व्याकुलता च, अनभ्यर्णीकृतनिखिलव्यसनव्याकुलता, अत एव शिवश्चासौ आलयश्च-निःश्रेयसरूपस्थानस्य (अखंड-अनन्तात्मक ) शर्मरूपं फलं तेनोवलः-स्पष्टः (धर्मकल्पतरुः)
अर्थाद् विशेषणपञ्चकविशिष्ट एष धर्मकल्पवृक्षः, अनेकसुराणां समृद्धयादेराशंसनप्रार्थनादिरूपपरिणामपरशुना (कुठारेण) नितरां दायते-लयते, तन्निदानमिति व्युत्पत्तिजन्योऽर्थः,
परन्तु, एतद्-आरोग्यबोधिलाभादिप्रार्थनं न निदानं, यतः 'तल्लक्षणायोगात् ' -निदानलक्षणाघटनात् , निदानलक्षणस्य भावना
निदानलक्षणम् द्वेषाऽभिष्वङ्गमोहगर्भस्वं निदानस्य लक्षणम् (१) द्वेषः-मत्सरः-नीचता-दुर्जनता, (२) अभिष्वङ्गः-विषयानुग्रहः,-विषयान् प्रत्युत्कटरागः.
(३) मोहः-अज्ञानं, ततस्ते द्वेषाऽभिष्वङ्गमोहाग :-अन्तरङ्गकारणं यस्य तत् द्वेषाऽभिष्वङ्गमोहगर्भ निदानम् , तथा-द्वेषादिगर्भतया निदानस्यागमे प्रसिद्धत्वात्-रूढत्वात् ,
रागद्वेषगर्भयो निदानयोः सम्भति-अग्निशर्मादिषु (१-वन्दारुवन्दक-चक्रवर्तिनःस्त्रीरत्नस्य कोमल-कबर्याः केशकलापस्पर्शनमात्रेण कामरागान्धेन संभूतिमुनिना निदानं कृतं अहं भवान्तरे एतत्तपआदेः प्रभावेण स्त्रीरत्नस्य भोक्ता चक्रवर्ती भवेयमिति, तत एतन्निदानेन चक्रवर्ती जातः सः, सप्तमीपृथिवीरूप-नरकस्य-अतिथि जतिः, सुदीर्घसंसारवघकोऽभवदिति, २-प्रथमे भवेऽमिशर्मणा तापसेन कल्याणमित्रगुणसेननामक- महाराजस्योपरि द्वेषेण वैरेण निदानं कृतं, "प्रतिभवं राज्ञोऽस्य मारको भवेय'मिति एतेन निदानेनोग्रतप-स उपरि जलं प्रतिक्षिप्तमभितः सुदीर्घतरः संसारो वर्धितः ।) प्रसिद्धत्वेन रागगर्भदोषगर्भरूपनिदानलक्षणं सुबोधं भवति, अत एव स्पष्टीकरण-विवेचन-कथनरूप-निर्देशमनादृत्य मोहगर्भनिदानस्य लक्षण लक्षयति.