________________
ललितविस्तरासटीका
तथा च ये, इन्द्रदिकैः नामपूर्वकं स्तुताः-वंदिताः, महिताः, ते लोके उत्तमा (सर्वप्राणिलोकप्रधानाः, लोके परंज्योतीरूपा सिद्धाः, माम् ( मम ) आरोग्यं तथा तसिद्धये बोधिलाभं च केवलज्ञानं सर्वसंवररूप-यथाख्यातचारित्रनामक-सर्वोत्कृष्ट-वरसमाधि-भावसमाधि ददतु, एष समुदितोऽर्थो ज्ञेयः')
अथ तीर्थकरा आरोग्यवोधि समाधि ददति, इति विषयः कथं सत्यः ? यतः तीर्थकरा: वीतरागा सन्ति, तथा, इदं असत्यमपि न, यतः तं तस्य ध्यानात् प्राप्नोति, अतःशास्त्रकाराः इदंजातीयां प्रार्थनां 'असत्यामृषा' नामिकां चतुर्थीभाषां कथयन्ति. अतः तीर्थकरा माम् ( मम ) पुरतः एवं रीत्या प्रार्थना पुनः पुनः कर्त्तव्या, एतद्-विषयिणी चर्चा. आक्षेपपरिहारपूर्विकां सुंदर-शैल्या, अत्र निरूपयति.
आह-शङ्का =किमिदं 'आरोग्यबोहिलाभं समाधिवरमुत्तमं ददतु' इत्यादिवाक्यं निदानमुत नेति ? यदि निदानमलमनेन, सूत्र-प्रतिषिद्धत्वात् ( दशाश्रुतस्कन्धादि-सूत्रे निदानप्रतिषेधः कृतोऽस्ति) यदि निदान न चेत्तदा तत्प्रार्थनं सार्थकं वाऽनर्थकं किं ? यद्याद्यः पक्षः, तेषां रागादिमत्वप्रसङ्गः, (वीतरागेषु-अहंदादिषु रागादिमत्तारूपप्रसङ्गः- वीतरागा अपि रागादिमन्तःस्युरिति महापत्तिः, तरागावीतरागयोः कः प्रतिभेदः इति अतिप्रसङ्गः स्यात् )
रागादिमत्तास्वीकारे प्रार्थनाप्रवीणे प्राणिनि तथादानात्-प्रार्थनाकरणेऽत्यन्तकुशले यथाप्रार्थितं (प्रार्थितारोग्यबोधिलाभादि ) दानाद्-वितरणात् सार्थकं प्रार्थनमिति, अतिप्रसङ्गो ज्ञेयः, अथ चरमः पक्षः ( प्रार्थनं निरर्थकमिति. ) आरोग्यादिदानविकला एते इति जानानस्यापि प्रार्थनायां मृषावाद-प्रसङ्ग इति.
समाधानम् = अत्रोच्यते, एतत्-'आरोग्यबोधिलाभं समाधिवरमुत्तमं ददतु' इत्ये. तद्वाक्यं, 'न निदानेत्यादि' नैव निदान-( व्युत्पत्तिजन्योऽर्थः ) नितरां दायते-लयते,
(१) सम्यग्दर्शनस्य प्रपञ्चः (सप्तषष्टिभेदप्रभेदरूपः) स एव बहलः (सुदृढः-अत्यन्तगाढः) मूलजालः (मूलस्य जालं-समूहः) यस्य स (धर्मकल्पतरुः) (सम्यक्त्वसम्बन्धि-श्रद्धानचतुष्ट्या दिसप्तषष्टिभेदप्रभेदरूप-प्रपञ्चमय-सुदृढमूल- समुदायविशिष्ट इत्यर्थः)
(२) ज्ञानदर्शनादि-विषयक-विशुद्धि-विनयविधिरूप-समुन्नत-स्कन्ध (प्रकाण्डमस्तक)स्य बन्धो (रचना) यत्र स ( धर्मकल्पतरुः ) ( ज्ञानदर्शनादि-विषयकविशुद्धदशविध-विनयवैयावृत्त्यादिसहित) विधिरूप वृद्धि-समुन्नति (शुद्धि-सहित) स्कन्धः, (शाखाप्रशाखाजनकत्वेन प्रसिद्धः ) कथ्यते, तस्य बन्धः (बन्धन-रचनाविशिष्टः )