________________
१०२
ललितविस्तरासटीका धर्मप्राप्तिबोधिलाभोऽभिधीयते, तं, स चानिदानो मोक्षायैव प्रशस्यते इति, तदर्थमेव च तावत्किम् ! अत आह-समाधानं समाधिः,
अर्थात् कर्मसंयोगरूपसंसार एव भाव-महारोगः कथ्यते, तस्याऽऽत्यन्तिकध्वंसो मोक्ष एव भावारोग्यं सत्यारोग्यं-नित्यस्वास्थ्य-सिद्धत्वं, तदर्थ सिद्धत्व सिद्धये बोधिलाभः=आरोग्यबोधिलाभ:-जिनप्रणीतधर्मप्राप्तियोधिलाभः कथ्यते, तं=आरोग्यबोधिलाभ,
स चानिदानो=आरोग्यबोधिलाभश्च, पौद्गलिक-किंप्रकारकाशंसारहितत्वविशिष्टनिदानरहितो मोक्षायैव प्रशस्यते, अनिदानधर्मः सम्यग्दर्शनादारभ्य यावद् वीतरागत्वजनक-परमकक्षक-शुद्धात्मीयपरिणामरूपधर्मपर्यन्तो धर्मों ज्ञेयः, तदा तदर्थमेव तावत्किम्' तस्यबोधिलाभस्य अर्थ-कृते किं ? बोधिलाभाय च किं स्पृहणीयं ? बोधिलाभसुदृढता-सुस्थिरतायै किं याचनीयम् !
अत आह-'समाधिवरमुत्तमं ददतु' 'समाधानं समाधिः स च द्रव्यभावभेदाद् द्विविधः, तत्र द्रव्यसमाधिः-यदुपयोगात् स्वास्थ्यं भवति, येपां वाऽविरोध इति, भावसमाधिस्तु ज्ञानादिसमाधानमेव, तदुपयोगादेव परमस्वास्थ्ययोगादि'ति, अर्थात् , समाधिः
(१) द्रव्यसमाधिः येषां पदार्थानामुपयोगात् शरीरस्वास्थ्य (तंदुरस्ती भाषायां, बाह्यशांति भवति) अथवा ये पदार्था बाह्यस्वास्थ्ये विरोधिनो न, अनुकूलाः सन्ति, ते पदार्थाः समाधौ कारणत्वेन द्रव्यसमाधित्वेन कथ्यन्ते.
(२) भावसमाधिः-ज्ञानादिसमाधानमेव यतः, तेषां ज्ञानादीनामुपयोगात्-आराधना द्वारा परमस्वास्थ्ययोगोऽस्ति, ( परमात्मिक शान्ति सम्पूर्णस्वरूपरमणता-स्थिरतारूपः परमस्वास्थ्ययोगोऽस्ति.)
यतश्चायमित्थं द्विधा, अतो द्रव्यसमाधिव्यवच्छेदार्थ, आह-वरं प्रधानं भावसमाधिमित्यर्थः, असावपि तारतम्यभेदेनानेकधैव, अत आह उत्तमं सर्वोत्कृष्टं ददतु-प्रयच्छन्तु,
अर्थात् , द्विप्रकारोऽयं समाधिस्तथापि सिद्धत्वाय द्रव्यसमाधिरहेतुत्वेनाऽसमर्थो, अतो द्रव्यसमाधिव्यवच्छेदार्थ आह वरं-प्रधानं भावसमाधिरेव सिद्धत्वाय निबंधनत्वेन प्रधानकारणमस्ति, तदपि ज्ञानादिरूपभावसमाधेः तारतम्येन-(न्यूनाधिक्येन) अनेके प्रकाराःसन्त्येवाऽत आह-उत्तम-सर्वोत्कृष्टं भावसमाधि ददतु-प्रयच्छन्तु-क्षायिकज्ञानसर्वसंवररूपभावचारित्रादिरूपं भावसमाधि-उत्कृष्टभावसमाधिं ददतु-प्रयच्छन्तु ॥