________________
१०७
ललितविस्तरासंस्कृतटीका मित्यपिशब्दार्थः, सिद्ध-प्रतीतमेतद्-अविशेषज्ञतागर्हणं, 'नार्घन्ति रत्नानि समुद्रजानि परीक्षका यत्र न सन्ति देशे। आभीरघोषे किल चन्द्रकान्तं, त्रिभिः किलाटैः ( भिवराटैः) प्रवदन्ति गोपाः ॥ १॥ अस्यां सखे ! बधिरलोकनिवासभूमौ, किं कूजितेन तव कोकिल ! कोमलेन । एते हि दैववशतस्तदभिन्नवर्ण, त्वां काकमेव कलयन्ति कलानभिज्ञाः ॥२॥ इत्याद्यविशेषज्ञव्यवहाराणां तेषामपि गर्हणीयत्वेन प्रतीतत्वात् , स्यादेतद्-अभ्युदयफलत्वेन धर्मस्य लोके रूढत्वात्तथैव च तत्प्रार्थनायां काऽविशेषज्ञता इत्याशङ्कयाह-"योगिबुद्धिगम्योऽयं व्यवहारो" मुमुक्षुबुद्धिपरिच्छेद्योऽयं ऋद्धयभिष्वङ्गतः धर्मप्राथनाया अविशेषज्ञतारूपो व्यवहारः, धर्मस्य चारम्भावसानसुन्दरपरिणामरूपत्वादृद्धेश्च पदे पदे विपदा पदभूतत्वात् महान् विशेषः, अन्यस्य च भवाभिष्वङ्गत इत्थं बोद्धुमशक्तत्वात् “सार्थकानर्थकचिन्तायां तु भाज्यमेतत्" चतुर्थः
चतुर्थभाषारूपत्वादिति, अयमभिप्रायः-चतुर्थी हि एषा भाषा आशंसारूपा न कञ्चन सिद्धमर्थ विधातुं निषेद्धं वा समर्थेत्यनर्थिका, प्रकृष्टशुभाध्यवसायः फलमस्या भवतीति सार्थिकेत्येवं भाज्यतेति ।।
टी०...मोहगर्भस्य निदानस्य लक्षणं च-"धर्माय हीनकुलादिप्रार्थनं मोहः, अतधेतुकत्वात्,” धर्मस्य निमित्तं-धर्मरूपफल-प्राप्तये, हीनं विभव-विभुतादिभिर्नीचं यत्कुलं अन्वयः, आदिशब्दात् कुरूपत्व-दुर्भगत्वानादेयत्वादे ग्रहः( ग्रहणम् ) भवान्तरे (अन्यभवे) तेषां-हीनकुलादीनां प्रार्थनं-आशंसनम् “ मोहः” मोहगर्भ निदानं, “अहेतुकत्वाद् ” अविद्यमानास्तेहीनकुलादयो हेतवो यस्य (धर्मस्य) स, "अतद्हेतुकः,” तद्भावस्तत्त्वं, तस्मात्-अतद्हेतुकत्वात् , धर्म प्रति हीनकुलादयो न हेतवः, परन्तु मोहोदयेन ते मन्यन्ते धर्म प्रति हीनकुलादयः, अप्रतिवन्धकाः। हीनकुलादिभावभाजो धर्मभाजनं प्रायो भव्या-न योग्या भवन्ति, परन्तु अहीन ( उत्तमपरमोत्तम ) कुलान्वयसुरूपत्वसुभगत्वादेयत्वावच्छिन्नादित्वरूपभावभाजो हि भगवन्त इवाविकल (सर्वाशीय-सम्पूर्ण) धर्मभाजनं भव्या भवितुमर्हन्ति नेतरे इति उक्तं च "हीनकुल वान्धववर्जितत्वं, दरिद्रतां वा जिनधर्म-सिद्धये ।
__ प्रयाचमानस्य विशुद्धवृत्तेः, संसारहेतुर्गदितं निदानम् ।।" 'विशुद्धवृत्तेरित्यत्र विशुद्धावृत्ति यस्य स (वृत्तिः-वर्तनं-आजीविका-स्थितिः इत्यर्थः) तस्य ।
प्रकारान्तरेणापीदमाह-'ऋद्धयभिष्वङ्गतः ' पुरन्दर-चक्रवर्त्यादिविभूत्यनुरागेण “ धर्मप्रार्थनाऽपि ” नूनं धर्माराधनमन्तरेणेयं विभूति न भविष्यतीत्याशया धर्माशंसनमपि, किं पुनहींनकुलादिप्रार्थनेत्यपिशब्दार्थः, किमित्याह-'मोहः' उक्तरूपः, कुत इत्याह-'अतद्धे तुकत्वाद्' अविद्यमान उपसर्जनवृत्त्याऽऽशंसितो धर्मों हेतुर्यस्याः सा, तथा तद्भावस्तत्त्वं, तस्मादेव, अनुपादेयतापरिणामे नैवोपहतत्वेन धर्मस्य ततोऽभिलषित-ऋद्धयसिद्धेः, यत एवं ततः अर्थाद्