________________
७७
ललितविस्तरासंस्कृतटीका
एकोवाऽनेके वा पठति. पठन्ति च स चायम्" लोगस्स उज्जोयगरे, धम्मतित्थयरे जिणे । अरिहंते कित्इस्सं, चउवीसपि केवलि ॥१॥ (लोकस्योद्योतकरान् , धर्मतीर्थकरान् जिनान् । अर्हतः कीर्तयिष्यामि, चतुर्विंशति केवलिनः।।१।।)
अस्य-चतुर्विशतिस्तवस्य व्याख्या
"लोकस्योद्योतकरानित्यत्र, ( लोकस्येत्यत्रासमस्त-षष्ठीविभक्तेर्भावार्थ:-षष्ठीविभक्तिर्मुख्यत्वेनोपपदविभक्तिरस्ति, पष्ठीविभक्तेः सम्बन्धोऽन्येन नाम्ना सहाऽस्ति, अर्थस्य दृष्ट्या पश्चादागच्छन्नाम्नो विशेषणं यथाऽस्ति तथा, दा. त. 'ग्रामस्योद्योगाः ' ग्रामोद्योगाः इति रीत्या षष्ठीविभक्तेरौँ विशेषणवद् भवति, ततः केचित् षष्ठीविभक्ति विशेषणविभक्तित्वेन कथयन्ति, अर्थाद् विशेषणस्य भेदत्वेन विवक्षायामेव विशेषणस्य षष्ठीविभक्तिर्भवति, अभेदविवक्षायां नहि, तथाऽत्रापि विषयिज्ञानेन विषयभूतलोकस्य भेदविवक्षाऽस्ति, एवं लोकशन्दस्था षष्ठीविभक्तिः कथयति )
___ एवं याऽसमस्तत्वेन लोकशब्दतः षष्ठीविभक्तिकरणपूर्विका वाक्यरचना कृताऽस्ति, तत्र हार्दमेवमस्ति "विज्ञानाद्वैतव्युदासेनोद्योत्योद्योतकयो |दसन्दर्शनार्थ भेदेनोपन्यासः" ये विज्ञानाद्वैतवादिनो जगतः केवलविज्ञानरूपत्वं मन्यन्ते, तन्मतखण्डनद्वारा
विज्ञानाद्वैतवादिनी योगाचार-विशेषस्य विज्ञानवादिनो. बौद्धास्तु विज्ञानं विविधम् प्रवृत्तिविज्ञानम् आलयविज्ञानं च। तमाचं अयं घटः इत्याकारकम् । द्वितीयं चाहं जानामि इत्याकारकं । तदेवात्मा इत्युच्यते, इति वदन्ति । बौद्धस्य मतमस्ति यद् ग्राह्यग्राहकादिना रहितस्य 'विज्ञानमात्रस्य' परमार्थतः सत्यताऽस्ति, यतो बाद्यपदार्थानामभावो वर्तते, ज्ञानं कारणं किश्चिद् वाद्यपदार्थरूपं नास्ति, अर्थाद् विज्ञानं विमुच्य वाह्यः पदार्थः किञ्चिद् बस्तु नास्ति, वस्तुतस्तु समस्तो भावः, स्वप्नवन्मायावद् गन्धर्वनगरवद्-असद्रूपोऽस्ति, तस्मात् परमार्थसत्यतः स्वयं प्रकाशक विज्ञानमेव सत्यमस्ति सर्वमेतद् दृश्यमानं जगद् विज्ञानपरिणामरूपं-विज्ञानमयमस्ति, सर्वे पदार्था निःस्वभावाः) उद्योत्य-प्रकाश्यं (प्रमेयज्ञेयवस्तु) चोद्योतकश्च (प्रकाशकं-प्रमाणं-ज्ञान) उद्योत्योद्योतकयो #दसन्दर्शनार्थ भेदेनोपन्यासः (वाक्यरचनारूपः)
लोकशब्दव्याख्या लोक्यते लोकः (दृश्य पदार्थः) लोक्यते केवलज्ञा नदर्शन-प्रमाणेन दृश्यते इति भावः (प्रमाणेन प्रमाणित-दश्य-ज्ञेय-पदार्थः) स्वपरनिर्णायकज्ञानप्रमाणेन सम्यगर्थनिर्णयप्रमाणेन प्रत्यक्षपरोक्षरूपमेदद्वयवता प्रमाणेन प्रमेय-विषयलोकः,
..