________________
७८
ललितविस्तरासंस्कृतटीका " अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते " अत्रायं लोकः पञ्चास्तिकायात्मको गृह्यते.
(चेतनालक्षणो जीवः, संख्यादृष्टयाऽनन्ताः, असंख्यातप्रदेशात्मकाः (१) रूपिणः पुद्गलाः, संख्यातासंख्यातानन्त-प्रदेशात्मका अनेके (२) सहजत्वेन गति-परिणाम-प्राप्तजीवपुद्गलयोर्गता, (३) अपेक्षाकारणं धर्मास्तिकायः असंख्यातप्रदेशात्मक एकः । सहजत्वेन स्थितिं कुर्वतो जीवपुद्गलयोः स्थितिसहायको द्रव्यविशेषोऽधर्मास्तिकायोऽसंख्यातप्रदेशात्मक एकः । दुग्ध-शर्करावत्, अयोगोलकाऽग्निवत् , अवकाशं ददाति तथा अवगाहकपदार्थानामवकाशदमाकाशं, असंख्यातप्रदेशात्मकं लोकाकाशं (अनन्तप्रदेशात्मकमलोकाकाशम् एकं) तस्य लोकस्य किम् ? इति प्रश्ने 'उद्योतकरणशीलाः' । (१) उद्द्योतकरास्तान्, केवलालोकेन तत्पूर्वकवचनदीपेन वा सर्वलोकप्रकाशकरानित्यर्थः । अर्थात् केवलालोकेनेति स्वप्रकाशकं ज्ञान, द्योतित केवलज्ञानरूपप्रकाशपूर्वकवचनदीपेनेति (स्वपरप्रकाशकज्ञानद्वारा वचनरूपश्रुतेन-देशनादिना गणधरादीनामग्रे परप्रकाशकाः) स्वपर सर्वलोक प्रकाशकरान् लोकस्योद्योतकरान् अर्हतः (विशेष्यपदम्) कीर्तयिप्यामिस्तोण्ये (क्रियापदम्) इति प्रथमं विशेषणपदम् ।
(२) धर्म तीर्थकरान् = तथा लोकस्योद्योतकरा अर्हन्तस्तथा धर्मतीर्थकरा अर्हन्तो भवन्त्यतः 'धर्मतीर्थकरान् अर्हतः कीर्तयिष्यामि दुर्गतौ प्रपन्तमात्मानं धारयतीति 'धर्मः, उक्तं च-"दुर्गतिप्रसृताञ्जीवान् यस्माद् धारयते ततः । धत्ते यैतान् शुभे स्थाने तस्माद् धर्म इति स्मृतः ॥ इत्यादि" अर्थाद् 'धृ' 'धा'रूपोभयधात्वोर्ग्रहणात्प्रथमं धारणं कृत्वा पश्चाद् शुभस्थाने स्थापनमिति धर्मशब्दस्य व्युत्पत्तिगम्योऽर्थः, क्रोधादिकाषायिकभावांस्तथा हिंसादि दुष्कृत्यानि परावृत्य क्षमादित्वाहिंसादिरूपधर्मसेवनेन क्षमादि-दयादिरूपविधिधर्मस्य दुर्गतिकारणाधर्मरूपकषायादिभाव-हिंसादि दुष्कृत्यरूपनिषेध्यनिषेधरूपधर्मद्वारा, दुर्गतिकारणतो निवृत्तिः सद्गतिकारण-निष्पत्तितः-धर्मतो जीवा सद्गति प्रति गच्छन्ति, तत्र तिष्ठन्ति, दुर्गति प्रति न गच्छन्ति, अतःशुभभावाः कर्त्तव्याःशुभकार्याणि ज्ञात्वा कार्याणि, सद्गतिमिच्छता सन्मतिः स्पृहणीया, सत्कृतिः करणीयेति.
धर्मतीर्थ तथा तीर्यतेऽनेनेति तीर्थ, धर्म एव धर्मप्रधानं वा तीर्थ धर्मतीर्थ, तत्करणशीला धर्मतीर्थकरास्तान अर्थात् तरणकारणं तीर्थ धर्मएव तीर्थ-श्रमणश्रावकधर्मः (श्रुतचारित्रधर्मः) संसारसागरतारणकारणत्वेन तीर्थमथवा धर्मप्रधान-सङ्घादि, वस्तु वा धर्मेण प्रधान:-चतुर्विधः श्रमणप्रधानसङ्घस्तं अथवा धर्मप्रधान-चतुर्विधसंघं तीर्थ कथयन्ति जिनाः, अतो धर्मप्रधान