________________
ललितविस्तरासंस्कृतटीका तथा तीर्यतेऽनेनेति तीर्थ, धर्म एव धर्मप्रधान वा तीर्थ धर्मतीर्थ, तत्करणशीला धर्मतीर्थकरास्तान् , तथा रागादिजेतारो जिनास्तान्, तथाऽशोकाद्यष्टप्रातिहार्यादिरूपां पूजामहन्तीत्यहन्तस्तानहतः, "कीर्तयिष्यामि" इति, स्वनामभिः स्तोष्ये इत्यर्थः, " चतुर्विशतिमिति” सङ्ख्या, अपिशब्दो भावतस्तदन्यसमुच्चयार्थ इति, केवलज्ञानमेषां विद्यत इति केवलिनस्तान् केवलिनः ।
अत्राह-लोकस्योद्योतकरानित्येतावदेव साधु, धर्मतीर्थकरानिति न वाच्यं, गतार्थत्वात् , तथाहि-ये लोकस्योद्योतकरास्ते धर्मतीर्थकरा एवेति, अत्रोच्यते, इह लोकैकदेशेऽपि ग्रामैकदेशे ग्रामवल्लोकशब्दप्रवृत्तेः मा भूतदुद्द्योतकरेष्ववधिविभङ्गज्ञानिष्वर्कचन्द्रादिषु वा सम्प्रत्यय इत्यतस्तद्वयवच्छेदार्थ धर्मतीर्थकरानिति । आह-यद्येवं धर्मतीर्थकरानित्येतावदेवास्तु लोकस्योद्योतकरानिति न बाच्यमिति, अत्रोच्यते,
५०....“ भावतस्तदन्यसमुच्चयार्थ इति" भावतो-नामस्थापनाद्रव्याहत्परिहारेण शुभाध्यवसायतो वा तदन्येषां-ऋषभादिचतुर्विशतिव्यतिरिक्तानां ऐरवतमहाविदेहजानामर्हता सङ्ग्रहार्थः, तदुक्तं-" अविसहग्गहणा पुण एरवयमहाविदेहे य"
टी०...अथ लोगस्ससूत्रस्यावतरणिका
पुनरत्रान्तरे-किश्चास्मिन् प्रस्तावे ( चैत्यवंदनप्रस्तावे ) अस्मिन्नेवावसर्पिणीकालेवर्तमानावसप्पिणी-ततीयचतुर्थारकरूपे काले भारते-भरतवर्षे (क्षेत्रे) ये तीर्थकरास्तेषामेवेकक्षेत्रनिवासादिनाऽऽसन्नतर-अत्यन्तसमीपोपकारित्वेन कीर्तनाय (यशोगानाय-गुणगानाय) चतुविशतिस्तवं पठति, पठन्ति वा,
in
(चतुर्विशतिस्तवः= चतुर्विशतेजिनानां नाम गृहीत्वा स्तुति-नमिस्तुतिर्मवति, अतो गुणनिष्पा नाम (गौणं) नाम समुच्यते, 'लोगस्सेशि नाम सूत्रादित्वेनादानं नामोच्यते.)