________________
ललितविस्तरासंस्कृतटीका तीर्थकरा, अद्य-पर्यन्तं केवलज्ञानपूर्वकं भावाऽर्हन्त्यं न प्राप्ताः परन्तु भविष्यन्ति, कालेऽवश्यं प्राप्स्यन्ति, ते द्रव्यजिनाः अथवा ये तीर्थकराः सिद्धास्ते सिद्धावस्थावन्तोऽपि द्रव्यजिनाः कर यन्ते, एवं भावजिनस्योभयपार्श्ववर्ति-(भूतभविष्यत्कालवर्ति(-अवस्थारूपा, द्विप्रकारा द्रव्यजिना, तद्विषयकवन्दनारूपद्वितीयाधिकारदर्शनानन्तरं, चैत्यसत्कस्तुतेः कायोत्सर्गस्य दर्शकत्वेन, 'अरिहंत चेइ.' पदतः प्रथमस्तुति-पर्यन्तस्य सूत्रस्य गौण ( गुणनिष्पन्न ) नामरूपचैत्यस्तवविषयकवन्दनाकायोत्सर्गरूप-द्वितीयदण्डके यच्चैत्ये चैत्यवन्दना कर्तव्याऽस्ति, तचैत्यस्थितस्था. पनाजिनवन्दना, अधिकृत-जिनस्य प्रथमः कायोत्सर्गस्तथा तस्य स्तुतिः कथिताऽस्ति, एतद्रुपतृतीयाधिकार-दर्शनानन्तरमथ वर्तमानाऽवसर्पिण्याश्चतुर्विशते भगवतां नाम्नः स्तुतिरस्त्यतः, एत लोगस्से'त्यस्य द्वितीयनामरूपनामस्तवरूप-तृतीयदंडकस्य तथा लोगस्सेति सूत्रमध्ये वर्तमाना. ऽवसर्पिण्यां जातत्वेन चतुर्विशतेस्तीर्थकराणां नाम्नां स्तुतिरस्ति,
अत: 'नामतीर्थकरस्य' वन्दनारूप -चतुर्थाधिकारदर्शनेऽवतरणिकामर्पयति शास्त्रकारः__ पुनरत्रान्तरेऽस्मिन्नेवावसर्पिणीकाले ये भारते तीर्थकृतस्तेषामेवैकक्षेत्रनिवासादिनाऽऽसन्नतरोपकारित्वेन कीर्तनाय चतुविंशतिस्तवं पठति पठन्ति वा, स चायम्"लोगस्स उज्जोअगरे, धम्मतित्थयरे जिणे।
अरिहंते कित्तइस्सं, चउवीसंपि केवली ॥१॥" ____अस्य व्याख्या-लोकस्योद्योतकरानित्यत्र विज्ञानाद्वैतव्युदासेनोद्योत्योद्योतकयोर्भेदसंदर्शनार्थं भेदेनोपन्यासः, लोक्यत इति लोकः, लोक्यते प्रमाणेन दृश्यत इतिभावः, अयं चेह तावत्पञ्चास्तिकायात्मको गृह्यते, तस्य लोकस्य किम् ? उद्द्योतकरणशोला उद्द्योतकरास्तान् , केवलालोकेन तत्पूर्वकवचनदोपेन वा सर्वलोकप्रकाशकरणशीलानित्यर्थः, तथा दुर्गतौ प्रपतन्तमात्मानं धारयतोति धर्मः, उक्तं च... "दुर्गतिप्रसृताञ्जीवान् , यस्माद्धारयते ततः ।
धत्ते चैतान् शुभे स्थाने, तस्माद्धर्म इति स्मृतः॥१॥ इत्यादि".