________________
७४
ललितविस्तरासंस्कृतटीका सर्वत्र निराशंसभावपूर्वकं सातत्येन प्रवर्त्तनं शिवमार्गे भावगमनं-भावयानमित्यर्थः तत्र व्याख्यायां विशिष्टध्येयध्यान-विद्या-तत्फलादिकमानुषङ्गिकं कथितं. ___अथ प्रकृतं प्रस्तुमः, स हि ( कायोत्सर्गकर्ता हि ) कायोत्सर्गस्यान्ते यदि, एक एव ( एकको न्यायः ) ततो 'नमो अरिहंताणं ति' इत्याकारकनमस्कारपदमुच्चार्य, कायोत्सर्ग पारयित्वा स्तुतिः पठनीयेत्यन्यथा-यदि 'नमो अरिहंताणं' रूपनमस्कारपदमुच्चार्य पारयेत्तदा प्रतिज्ञाया भङ्गो भवेत् यतः 'जाव अरिहंताणं भगवंताणं नमुक्कारेण' रूप 'नमो अरिहंताणं इति पदं न कथयामि तावत् मम कायोत्सर्ग नाहं पारयामीति वाक्यतो नमो अरिहंताणमिति पदोच्चारणविषयिका प्रतिज्ञा कृताऽस्ति० 'नमो अरिहंताणमिति पदं नमस्कारस्वेन रूढमस्ति, नमस्कारः नमो अरिहंताणं रूपपदस्य नमस्कारे रूढिरस्ति,
अन्यथा अन्यप्रकारेणास्यार्थस्याभिधानेऽपि दोषसम्भवोऽस्ति. अन्यथा शब्दोच्चाररूहिप्रस्तावे शब्दोच्चारं मुक्तवा, एतदर्थकथनेऽपि दोषः कथं न ! यत्रार्थं यस्य रूढिरस्ति स रूढोऽर्थों ग्राह्यः प्रकृतनमस्कारभिन्नमन्त्रादिके तथादर्शनमस्ति. यतः सर्वत्र रूढिवलीयसी.
अथ कायोत्सर्गस्थिता बहवस्ततः-तेभ्य एक एव स्तुति पठति, अन्ये तु कायोत्सर्गेणैव तिष्ठन्ति, यावत्स्तुतिपरिसमाप्ति.
अत्र चैवं वृद्धा वदन्ति यत्र किलाऽऽयतनादौ-चैत्यादौ वन्दनं चिकीर्षितं-कतैमिष्टं तत्र यस्य भगवतः सन्निहितं स्थापनारूपं (जिनप्रतिमादिक) तं (जिनेश्वरं भगवन्तं) पुरुस्कृत्य ( उद्दिश्य ) प्रथमकायोत्सर्गः स्तुतिश्च तथा शोभनभाव ( शुभशुद्ध-वर्धमानभाव ) जनकत्वेन तस्यैवोपकारित्वात् , ततः सर्वेऽपि कायोत्सर्गस्थिता अन्ये सर्वेऽपि नभस्कारोच्चारणेन-'नमो अरिहंताणं' एतत्पदस्योच्चारणं कृत्वा पारयन्ति, कायोत्सर्गमिति, व्याख्यातं वंदनाकायोत्सर्गसूत्रम् । . . .
9 अर्हच्चैत्यदण्डकः समाप्त ___ अथ च शस्तवनामक-प्रथमदण्डके 'नमोत्थुणं' पदतः जिअभयाणं' पर्यन्तपाठे भावजिनविषयवन्दना, अर्थात् तीर्थकरनामकर्मणो विपाकोदयवन्तः केवलिनस्तीर्थकरा भगवन्तो देशनादिद्वारा भव्यजीवानुरन्तः, विहारेण पृथ्वीतलं पवित्रयन्तो विचरन्त आसनस्त समये तदशां लक्ष्यीकृत्य वन्दना कृताऽस्ति,
एतं प्रथमाधिकार दर्शयित्वा 'नमोत्थुणं' स्त्रस्यान्तिमसम्पूर्ण-गाथायां द्रव्यजिनवन्दना, अर्थात् पूर्वस्य तृतीयभवे निकाचितं तीर्थकरनामकर्म बद्धवा, तस्य प्रदेशोदये वर्तमाना ये