________________
ललितविस्तरासंस्कृतटीका
तथा विद्याजन्माप्तितः-विवेकोत्पत्ति-नित्यशुच्यात्मसुखादिषु तत्त्वेषु नित्यत्वादि-तत्त्वबुद्धिरूपविद्याविवेकोत्पत्ति-प्राप्तितः, तत्त्वज्ञानसमेतस्य महात्मनो विषयेषु-इन्द्रियकृतेषु पञ्चसु विषयेषु मनश्चित्तमपि न प्रवर्तते, तत इन्द्रियाणि कथं प्रवर्तेरन् ? आत्मा, मनः प्रवर्तयति, मनः इन्द्रियाणि विषयेषु प्रवर्तयन्ति. तत इन्द्रियाणि विषयेषु प्रवर्त्तन्ते ॥ २ ।। यथा मन्त्रेभ्योजाङ्गुल्या विषनाशकविद्यामन्त्रेभ्यो विषमस्तस्य-विषाक्रान्तस्य, निर्विषशरीरशरीरावययोत्पत्ति भवति तथैव हि विद्याजन्मनि सति विद्याजन्मवति वा पुरुषे मोहरूपविषस्य त्यागः अलं नियमतः, अर्थात् समर्थः सर्वथा । त्यागो भवति, पुनरुद्भवो न भवेदिति. त्यागः स त्याग एव ।। ३॥ अतः विद्याजन्मजन्यमोहविषत्यागत एवासौ महात्मा, नित्यमखेदितः प्रवृत्तिकरणे परिश्रमरहितः, अविरतत्वेताऽश्रान्तत्वेन प्रवृत्तिकरणे परायणः, सदा प्रसन्नोऽपि शैवमार्गे-मोक्षमार्गे याति-गच्छति, परन्तु मोहविषग्रस्तो मोक्षमार्गे न याति,
___ इतरस्मिन्निवेतरा-इति=इव=यथा, इतरस्मिन्-संसारमार्गे इतरो-मोहविषेणाऽग्रस्तो विवेकी नित्यमखेदितो न याति, अर्थाद् मोहविषाऽनाक्रान्तत्वेसति नित्यमखेदितत्वे सति, विद्याजन्मविवेकवत्त्वे सति महात्मा संसारमार्ग-मिथ्यात्वादिसंसारमार्गे न याति-गमनप्रतिबन्धो भवति..
तथा शैवमार्गे-सम्यगदर्शनादिमोक्षमार्ग मोहविषप्रस्तो न याति-गमनप्रतिबन्धो भवति, उभयत्र-मार्गे खेदितस्तु-प्रवृत्तिकरणे परिश्रान्तस्तु कोऽपि कथञ्चित् द्रव्यतः-संसारमोक्षफलाऽभावतः, द्रव्यापेक्षया ( न भावापेक्षया ) उभयत्रापि-संसारमार्गे मोहविषाग्रस्तः, मोक्षमार्गे मोहविषप्रस्तो यातीति भावः ॥४॥ अभिप्रायः पुनरयम्=अनुरूपकारणप्रभवे हि विद्याजन्मनि विषयवैराग्यक्रियाज्ञानाऽऽत्मके योगे, सातत्यप्रवृत्तिलक्षणं च शिवमार्गगमनं, तत्फलमुपयुज्यते नान्यथेति. अर्थाच्छुद्धभावोपात्तकर्मोदयजन्यविवेकोत्पत्तिकार्य भवति. अतः शुद्धभावोपात्तं कर्म, शुद्धभावजनकमतः, अनुरूपकारणप्रभवे हि विद्याजन्मनि सत्येव विषयवैराग्य-क्रिया ज्ञानात्मके योगे (मोक्षमार्गे ) सातत्यप्रवृत्ति (अविच्छिन्नाखेदजन्यप्रवृत्ति) लक्षणं शिवमार्गमनं भवति, तत्र तनूमोक्षफलकमुपयुक्तं भवति, नान्यथा-नान्यप्रकारेणेति. विशिष्टज्ञानक्रियात्मके योगे. (मोक्षमार्गे) वीतस्पृहस्य निराशंसभावसमेतस्य सातत्येन (अविच्छिन्नाखेद्वितभाववत्त्वेन) सर्वत्र-योगे, प्रवर्तनं 'शिवमार्गे, गमनं-भावतः प्रवृत्तिः, तदेव (भाव) यानमाहुः-कथयन्ति महर्षयः' ।। ५॥ इति वचनानि वर्तन्ते. तथा च कायोत्सर्गे स्थित्वा, क्रियमाणं पूर्वोक्तध्येयविषयकं ध्यानं ददेव विद्याविवेकजीजं, तत एव, विवेकजननान्तरं ज्ञानक्रियात्मके योगे