________________
७२
ललितविस्तरासंस्कृतटीका भवति, अत्र शुद्धभावोपात्तं कर्मविपाकं प्राप्य सातवेद्यादिकं दर्शयित्वा नश्यति तथापि तत्पृष्ठे मौलिकशुद्धभावोऽखण्डरूपेण स्थितोऽस्त्येव )
प्रश्नः भूतकालावच्छेदेन शुद्धभाव आसीत् ततो वर्तमानकालावच्छेदेन स भावोऽवश्य भवेदिति नियमः कथं ? पूर्वकालीन-शुद्धभावेन तु सातवेद्यादि-पुण्यपुञ्जो दत्त एव, एतत्कर्मोद. येन सातादिर्भवेत् परन्तु शुद्धभावः कथं उदयेत् ?
समाधान=शुद्धभावोपात्तं कर्म, शुभानुबन्धित्वेनास्योदयवेलायां यानि सातादीनि, अनुकूलत्वानि प्राप्यन्ते तानि रागादिसक्लेशरहितानि, ततस्तत्काले विद्याविवेको जायते, अस्मिन् विवेके मलिनत्वं भावविषयके न भवति, परन्तु शुद्धिरेव, शुद्धभावोपात्तं कर्म शुद्धभावकारणं भवति, कार्य कारणानुरूपमिति नियमतः, शुद्धभावोपात्तं कर्म, तदुदयः स्वकारण-स्वभावानुसार्येव, शुद्धभावो हि शुभकर्मजनकत्वेन सह शुभसंस्कारकारणं भवति. एतत् संस्कारयुतकर्मोदये तादृशो भाव उदेतीति युक्तियुक्तं, अत एकशः शुद्धभावः कार्यः, शुद्धभावेन सुकृत्यं कृत्यं, मात्रं पुण्यं नहि परन्तु भाविनि शुद्धभावभूमिकाऽपि प्राप्तव्यैवेत्युपदेशः,
युक्त्यागमसिद्धमेतत् , तल्लक्षणाऽनुपाति च । अर्थादेतत्कारणानुरूपं कार्यवस्तु, युक्त्यागमाभ्यां, अन्वयव्यतिरेकविचारेण, 'जं जं समयं जीवो' इति स्वरूपेणागमेन सिद्धम्, कारणानुरूपकार्यरूप-लक्षणानुसारित्वं, वर्त्तते, तथाहि=
(युक्तिस्वरूप कारणाधिकरणे कार्यस्य सत्त्वम् , यथा यत्सत्त्वे (कारणसत्त्वे ) यत्सत्त्वम् ( कार्यसत्त्वम् ) अन्वयः । कार्यकारणयोः साहचर्यमन्वयः । तत्र कार्यकारणयोः साहचर्य च स्वस्वव्याप्येतस्यावत्कारणसत्त्वे यत्सत्त्वेऽवश्यं यत्सत्त्वमिति । यथा चक्रादिघटितसामग्रीसमवहितदण्डादिसत्त्वे घटसत्त्वमिति, कार्य कारणानुसरणमन्वयः, कार्यसत्तापादकस्वसत्ताकस्य कारणस्य कार्ये स्थितिरन्वयः । कारणाभाव-कार्याभावयोः साहचर्य व्यतिरेकः । कारणाभावाधिकरणे कार्यासत्त्वम् व्यतिरेकः ।
यदभावे यदभाव इति, स यथा चक्रचीवरादिघटितस्य दण्डस्याऽसत्त्वे घटस्यासत्त्वमिति, व्यतिरेकः । अयं व्यतिरेकः कारणत्वग्रहजनक इति ज्ञेयम् । )
“तल्लक्षणानुपाति च"=युक्तयागमाभ्यां सिद्धकारणानुरूपकार्यरूपलक्षणानुपाति च विद्याजन्म-विवेकोत्पत्तिः, वक़गृहादिश्लोकपञ्चकरूपवचनात्, अत एव तद्वचनं दर्शयति.
__यथा वक़गृहस्य-विष्ठागृहस्य कृमिः, सुन्दरं-शोभनं मानुष्यं जन्म प्राप्य, मनुष्यजन्मप्राप्तावपि-मानवजन्मलाभेऽपि, तत्र-वर्चीगृहे गन्तुं पुनरिच्छा न सम्यक्तया प्रवर्तते ॥१॥