________________
लरितविस्तरासंस्कृतटीका
तथा च प्रकृत - कायोत्सर्गध्यानादिरूप-शुद्धभावेनोपाच-सात वेदनीयादिरूपं । पुण्यानुबन्धिपुण्यकर्म, नैयत्येन शुद्धभावफलदमस्त्येव, एवं च शुद्धभाव ( श्रद्धादि ) रूपं फलं— कार्य प्रति निरुक्तशुद्धभावोपात्तं कर्म, असाधारणं कारणमस्ति,
- अथैनं विषयं सोदाहरणं ज्ञापयति
७१.
,
यथा सौवर्णो घटः, भग्नदशायामपि सुवर्ण–फलकस्तु नित्यस्तिष्ठति, अर्थात् स्वर्ण नित्यं, आदिना रूप्य - घटादिर्ब्राह्यः तथा प्रकृतकर्माऽपि ज्ञेयं, अर्थात् - शुद्धभावोपात्तं कर्म, शुद्धभावरूपं फलं ददाति, सारं तु शुद्धभावोपात्त - कर्मण उदयेन विवेकोत्पत्तिरूपं विद्याजन्म भवति, यतः कारणस्वभावानुविधायी कार्यस्वभावो वर्त्तते, यादृशः कारणस्वभावः तादृश एवकार्यस्वभावः, अतः शुद्धभावेनोपात्तं कर्म शुद्धभावस्य कारणं कथं न ? अर्थात् शुद्धभावोपाचं कर्म शुद्धभावस्य कारणं भवत्येव शुभसंस्कारकारणमपि.
कारणानुगुणकार्ये युक्तिश्रागमश्च
(१) युक्तिः=कारणस्वभावानुसारी कार्यस्वभाव:, इति वस्तु, युक्तयाऽऽगमेन सिद्धम्, अन्वयव्यतिरेकसङ्गतिमती युक्ति दृश्यते च सुवर्णकुम्भभने नष्टखण्डावस्थायां सुवर्णमेव लभ्यते इत्यन्वयः, मृत्कुम्भे भने सुवर्ण न लभ्यते इति व्यतिरेकः ।
(२) आगमः = " जं जं समयं जीवो आविसह जेण जेण भावेण ।
सो मिमि समये सुहासु बंधए कम्मं ॥ " उ. मा. श्लो. २४
यत्र यत्र समये जीवो येन येन भावेन संयुक्तो भवति तत्र तत्र समये स तादृशं शुभं वाऽशुभं कर्म बनातीति.
शुभभावेन च शुभं चेत्कर्म तदा सातवेद्योच्चैर्गोत्रयशोनामकर्मादि, जीवो बध्नाति, अशुभभावेन तदाऽसातवेद्यनी च्चै गौत्रापयशोनामकर्मादि कर्म बध्नाति.
अर्थात् कायोत्सर्गकाले क्रियमाणात् पूर्वोक्तध्येय मध्यतः, एकतरं, निरन्तरनित्यनियतध्येयविषयकं ध्यानं, एतावन्माहात्म्यवदस्ति यतो विद्या - विवेकोत्पत्तिर्भवति.
( एतदवस्तु शास्त्रीयं परमेश्वरप्रणीतं तथा एतद् विवेकोत्पतिद्वारा ध्येयध्यानेन चैतन्यपरिणामरूपयोगः शुद्धो भवति यथा विवेकमात्रानुसारेण विशिष्टविशिष्टतर उपयोगस्तेजस्वी शुद्धो भवति शुद्धभावोपात्तं कर्मावन्ध्यं तथाहि सुवर्णघटोदाहरणेन शुद्धभावात् शुद्धभाव उत्पद्यते, कथमिति चेत् कथ्यते, शुद्धभावोपात्तं कर्मावन्ध्यमवश्यं नियमात् शुद्धभावदायकं