________________
ललितविस्तरासंस्कृतटीका
स्थापने गुणाः = हृदये सम्मुखं चक्षुषो यं स्थापयित्वा - संकल्प्य कायोत्सर्गः क्रियते तस्य गुणो ध्येयरूपोः, स्थापना चार्हतो भगवतस्तथाऽऽचार्यादिगुरोः कर्त्तव्या, ततस्तत्र देवाधिदेवस्यार्हतस्तीर्थङ्करस्याथवा गुर्वादि - पञ्चपरमेष्ठिनां भगवतां गुणाः, ध्येयाः - इति स्थापनेशगुणाः स्थापनेशतत्त्वानि=स्थापनेशस्य - ईशरूपतीर्थकरस्य प्ररूपितानि तत्त्वानि - जीवादीनि ध्येयानि अथवा पिंडस्थपदस्थरूपस्थ - रूपातीतादितत्त्वं स्वरूपं गुरोरपि लक्षणादितत्त्वं स्वरूपं तथा देवस्य गुरोश्च महिमादि तत्त्वं ध्येयम् ( पाठान्तरे - यथा परिणामेनैतत्स्थापने च गुणाः तत्त्व वा-अर्थात् परिणामप्रमाणेन ध्येयस्थापने -विषये गुणा वा तत्त्वानि )
७०
(२) स्थानवर्णार्थालम्बनानि ध्येयानि (स्थानं = आसनविशेषः, कायोत्सर्गासनं पर्यङ्कासन, पद्मासनमित्यादि तथा योगमुद्रा - जिनमुद्रा - मुक्ताशुक्तिमुद्रा, इत्यादेः सम्यक्पालनं, वर्ण: = वंदनाकायोत्सर्गसूत्रस्याक्षराणां अतिस्पष्टता - शुद्धता - स्वव्यञ्जनयोर्भेदसाहित्यं, पदच्छेदपूर्वकता तथा सम्पत् (विरामयति ) सहितत्वं, उचित-ध्वनि-सङ्कलितत्वम्, इति वर्ण - योगः, अर्था:-वन्दना कायोर्गं ससूत्रस्यार्था अपि सूत्रोच्चारणसमये यथा - स्वज्ञानं विचारणीयाः इति अर्थंयोगः, आलम्बनं=भाबाऽर्द्दन्तोऽपि स्मरणीयाः, तथा यस्याग्रतः चैत्यवन्दनं समारब्धं तस्य प्रतिमादेः, स्मरणमवश्यं कार्यम्, अर्थादालम्बनं जिनप्रतिमादि, ज्ञेयम्, )
(३) आत्मीय दोषप्रतिपक्षः = आत्मीया ये दोषास्तेषां प्रतिपक्षः स ध्येयः - ध्यानविषयः कार्य:-तथाहि आत्मनिष्ठा ये मिथ्यात्वाद्या दोषा::- आत्मनः दूषितकारकत्वेन तेषां प्रतिपक्षरूपः सम्यक्त्वादिगुणो ध्येयः ।
स्थानादि-आत्मीयदोष--प्रतिपक्षादि - विषयकं ध्येयम् विवेकोत्पत्तेर्मूलम्, यथा हेयोपादेय - आश्रव - संवर- पुण्य-पाप - जडचेतनादिविषयक - विवेकस्य उत्पत्ति र्बीजं, तथा नित्ये नित्यत्वबुद्धिः पवित्रे पवित्रत्वबुद्धिः, आत्मनि आत्मत्वबुद्धिः - आदिरूपे तस्मिन् तत्त्वबुद्धि विद्याजन्मनो गुणादिविषयकं ध्यानं बीजं, अस्ति, किञ्च शास्त्रसिद्ध-तद् विवेकोत्पत्तिबीजभूतगुणादि-विषयकध्यानं पारमेश्वरम् - परमेश्वरप्रणीतमेव.
अत एव विशिष्ट ध्येय-ध्यानेन विवेकोत्पत्तिर्योग्य - प्रकार द्वारा चैतन्यरूप शक्तेः शुद्धिर्भवति,
तथा - उपयोग शुद्धिरूपं कार्य प्रति विवेकजननप्रकार - द्वारा विशिष्टगुणादि विषयकं ध्यानं कारणम् ।