________________
ललितविस्तरासंस्कृतटीका भावजनकत्वेन तस्यैवोपकारित्वात् , ततः सर्वेऽपि नमस्कारोच्चारणेन पारयन्तीति व्याख्यातं वन्दनाकायोत्सर्गसूत्रं ॥
पं०..." एतद्विद्यत्यादि ” एतत्-प्रतिविशिष्टध्येयध्यानं विद्याजन्मवीज-विवेकोत्पत्तिकारणं "तदिति” शास्त्रसिद्ध “पारमेश्वरं" परमेश्वरप्रणीतं, हेतुमाह-"अतः” प्रतिविशिष्टध्येयध्यानाद् "इत्थमेव" विद्याजन्मानुरूपप्रकारेणैव — उपयोगशुद्धेः" चैतन्यवृत्तेर्निर्मलीभावाद्, एतदेव भावयति-" शुद्धभावोपात्तं” शुद्धः-अधिकृतकायोत्सर्गध्यानादिरूपो भावस्तदुपात्तं कर्मसद्वद्यादि अवन्ध्यम् अवश्यं-शुद्धभावफलदायि, कथमित्याह-" सुवर्णघटायुदाहरणेन" यथा सुवर्णघटो भङ्गेऽपि सुवर्णफल एव, आदिशब्दादूप्यघटादिपरिग्रहः, तथा प्रकृतकापीति, यद्येवं ततः किमित्याह- “ एतदुदयतः” शुद्धभावोपात्तकम्र्मोदयतो “ विद्याजन्म” विवेकोत्पत्तिलक्षणं, कुत इत्याह-"कारणानुरूपत्वेन" कारणस्वरूपानुविधायी हि कार्यस्वभावः, ततः कथमिव शुद्धभावोपात्त कर्म न शुद्धभावहेतुः स्याद् १ अस्यैव हेतोः सिद्धयर्थमाह
"युक्त्यागमसिद्ध" युक्तिः-अन्वयव्यतिरेकविमर्शरूपा आगमश्च “जं जं समयं जीवो, आविस्सइ जेण जेण भावेण" इत्यादिरूपस्ताभ्यां सिद्ध-प्रतिष्ठितम् ॥ एतत्" कारणानुरूपत्वं कार्यस्य, सिद्धयतु नामेदमन्यकार्येषु प्रकृते न सेत्स्यतीत्याह-" तल्लक्षणानुपाति च " युक्त्यागमसिद्धकारणानुरूपकार्यलक्षणानुपाति च विद्याजन्म, कुत इत्याह-इतिवचनादिति वक्ष्यमाणेन सम्बन्धो, वचनमेव दर्शयति "वर्चीगृहेत्यादिश्लोकपञ्चक" सुगमशब्दार्थं च, नवरं "इतरस्मिनिवेतरः” इति यथा इतरस्मिन्-संसारमार्गे इतरो-मोहविषेणाग्रस्तो विवेकी नित्यमखेदितो न याति, तथा शैवे मार्गे मोहविषग्रस्तो न याति, खेदितस्तु कोऽपि कथञ्चित् द्रव्यत उभयत्रापि यातीति भावः, अभिप्रायः पुनरयम्-अनुरूपकारणप्रभवे हि विद्याजन्मनि विषयवैराग्यक्रियाज्ञानात्मके योगे सातत्यप्रवृत्तिलक्षणं च शिवमार्गगमनं तत्फलमुपयुज्यते नान्यथेति, ॥ इतिश्रीमुनिचन्द्रसूरिकृतायां ललितविस्तारापञ्जिकायामहँच्चैत्यदण्डकः समाप्तः ॥
टी०...." इहोच्छवासप्रमाणमित्थं न पुनर्येयनियमः, यथा परिणामेनैतत्, स्थापनेशगुणतत्त्वानि वा, स्थानवालम्बनानि वा, आत्मीयदोष-प्रतिपक्षो वा" कायोत्सर्गेऽष्टश्वासो. च्छ्वासप्रमाणं सिद्धम् । कायोत्सर्गे ध्येय-ध्यानविषयस्य नियमो नास्ति, श्वासोच्छ्वासप्रमाणमस्ति।
प्रश्न:-कायोत्सर्गे ध्येय-ध्यानविषयः कः ?
प्रत्युत्तरम्-यथा परिणामेन-परिणामं स्वभावमनुस्मृत्यैतद् ध्येयम् , ज्ञेयम्. ध्यानस्यानेकानि ध्येयानि सन्ति,
(१) स्थापनेशगुणतत्त्वानिः स्थापनाया ईशस्य गुणाश्च तत्त्वानि वा,