________________
ललितविस्तरा संस्कृत टीका
एतद्विद्याजन्मबोजं तत्पारमेश्वरं, अतः इत्थमेवोपयोगशुद्धः, शुद्धभावोपात्तं कमविन्ध्यं सुवर्णघटाद्युदाहरणात एतदुदयतो विद्याजन्म, कारणानुरूपत्वेन,
६८
युक्त्यागमसिद्धमेतत्, तलक्षणानुपाति च, "बच्चगृहकुमेर्यद्वद्, मानुष्यं प्राप्य सुन्दरम् । तत्प्राप्तावपि तत्रेच्छा न पुनः सम्प्रवर्त्तते ॥ १॥ विद्याजन्माप्तितस्तद्वद् विषयेषु महात्मनः । तत्त्वज्ञानसमेतस्य न मनोऽपि प्रवर्त्तते ॥ २॥ विषग्रस्तस्य मन्त्रेभ्यो निर्विषाङ्गोद्भवो यथा । विद्याजन्मन्यलं मोहविषत्यागस्तथैवहि ॥ ३ ॥ शैवे मार्गेऽत एवासौ, याति नित्यमखेदितः । न तु मोहविषग्रस्त, इतरस्मिन्निवेतरः ॥ ४ ॥ क्रियाज्ञानात्मके योगे, सातत्येन प्रवर्त्तनम् । वीतस्पृहस्य सर्वत्र, यानं चाहुः शिवाध्वनि ||५|| इतिवचनात् अवसितमानुषङ्गिकं प्रकृतं प्रस्तुमः, स हि कायोत्सर्गान्ते यद्येक एव ततो " नमोअरिहंताणंति " नमस्कारेणोत्सार्य स्तुतिं पठत्यन्यथा प्रतिज्ञाभङ्गः, जाव अरिहंताणं इत्यादिनाऽस्यैव प्रतिज्ञातत्वात्, नमस्कारत्वेनास्यैव रूढत्वाद्, अन्यथैतदर्थाभिधानेऽपि दोषसम्भवात् तदन्यमन्त्रादौ तथादर्शनादिति । अथ बहवस्तत एक एव स्तुतिं पठति, अन्ये तु कायोत्सर्गेणैव तिष्ठन्ति, यावत्स्तुतिपरिसमाप्ति, अत्र चैवं वृद्धा वदन्ति - यत्र किलाssAaarat वन्दनं चिकीर्षितं तत्र यस्य भगवतः सन्निहितं स्थापनारूपं तं पुरस्कृत्य प्रथमकायोत्सर्गः स्तुतिश्च तथा शोभन
"
"
"
"
"