________________
ललितविस्तरासंस्कृतटीका
(अत्रेदं बोध्यम्=प्रस्थान-प्रतिक्रमण-कायोत्सर्गः, वन्दनकायोत्सर्गश्चमौ द्वौ कायोत्सर्गहेतुना मिथः सजातीयौ स्तः, अस्मिश्च प्रस्थापनप्रतिक्रमणस्य, अष्टश्वासोच्छ्वासप्रमाणः कायोत्सर्गः, वन्दनार्थकोऽपि, अष्टश्वासोच्छ्वासप्रमाणः कायोत्सर्गश्चेतौ द्वौ सर्वथा सजातीयौ जातो, अर्थादेक-सजातीयस्य कथने सहवर्तिनाऽऽदिपदेनान्यस्वसजातीयस्य ग्रहणं भवति, तत्समञ्जसमेव. ततो वन्दनार्थकायोत्सर्गे अष्टश्वासोच्छ्वासस्य प्रामाण्यं प्रतिपत्तव्यमेव तदभिनिवेशस्त्याज्य एव.)
-कायोत्सर्गे जघन्यतोऽप्यष्टश्वासोछ्वासप्रमाणः कर्त्तव्यो मन्तव्यश्चतथा चैषोऽष्टश्वासोच्छवासप्रमाणः कायोत्सर्गः साध्वादिलोकेनाऽऽचरित एव. यतः क्वचित् तदाऽऽचरितोपलब्धेः, आगमविदाचरणश्रवणाच्च. प्रश्नः=न चैवंभूतमा चरितमपि प्रमाणं, तल्लक्षणायोगात् । उक्तं च"असढेन समाचीर्ण, कुत्रापि केनचित् , असावा ।
न निवारितमन्यैश्च, बहु(मनु) मतमेतदाचरितम् ।।" छाया ।
(एषोऽष्टश्वासोच्छ्वासप्रमाणः कायोत्सर्गः) न चैतदसावा सूत्रार्थविरोधात् , सूत्रार्थस्य प्रतिपादितत्वात् , तस्य चाधिकगुणान्तरभावमन्तरेण तथाऽकरणविरोधात्, न चान्यैरनिवारितं, तदासेवनपरे-रागमविद्भिर्निवारितत्वात् , अत एव न बहुमतमपीति भावनीयम् । अलं प्रसङ्गेन,
समाधान यथोदित-मान एव कायोत्सर्ग इति, अर्थात् पूर्वोक्तोऽष्टश्वासोच्छ्वासप्रमाण ण्व कायोत्सर्गोऽत्र कर्तव्य एव,
उत्तरपक्षः एषोऽष्टश्वासोच्छ्वासमानः कायोत्सर्गः कार्यः, यतः सावद्यं नास्ति, प्रकृतसूत्रार्थरूपकायोत्सर्गेण सह विरोधो नास्ति, सूत्रस्यार्थोऽस्ति प्रतिपादितः प्रतिपादित-सूत्रार्थरयाऽधिकतरं गुणान्तरोपत्ति विना तथाऽकरणे विरोधोऽस्ति, अर्थात्, अधिकतरगुणान्तरोत्पत्तिर्भवति, तथाकरणे विरोधो नास्ति, सम्मतिरस्ति.
अत्र चैत्यवन्दनेऽष्टश्वासोच्छवासमानः कायोत्सर्ग एव मान्यः, अथ शास्त्रकारः कायोत्सर्ग, ध्येय-नैयत्यं नास्ति, अमुकविषयकध्यानममुकं फलं ददातीति, आनुषङ्गिक विषय दर्शयित्वा कायोत्सर्गः कया रीत्यैकेन वाऽनेकैः पार्य इति विधानं सहेतुक ज्ञापयति.
- इहोच्छ्वासमानमित्थं न पुनध्येयनियमः, यथापरिणामेनैतत् स्थापने च गुणाः तत्त्वानि वा स्थानवालम्बनानि वा आत्मीयदोषप्रतिपक्षो वा