________________
ललितविस्तरासंस्कृतटीका सूत्रस्वाध्याय-कार्याय प्रतिक्रमणस्य कायोत्सर्गादिविधौ, अर्थात् प्रस्थानप्रतिक्रमणयोरष्टश्वासोच्छ्वासप्रमाणः कायोत्सर्गो विधेयः )
शङ्का-अत्राऽयं न गृहीत इति चेत-अत्र- अस्मिन् वन्दनार्थकः कायोत्सर्गः कुत्र गृहीतोऽस्ति ! यतः अनयोः कायोत्सर्गः अष्टश्वासोच्छ्वासप्रमाणः सिद्धो भवेत् ,
प्रत्युत्तरम् -अत्र न गृहीत इति-नाऽपि गृहीत एव 'प्रतिक्रमादीति' वाक्ये, आदि ग्रहणेनैव गृहीत एव, अत्र प्रतिक्रमणादौ, आदिशब्दावरुद्धत्वं, उपन्यस्तगाथासूत्रस्योपलक्षणत्वात् (उपलक्ष्यते स्वं स्वेतरच्चानेनेति व्युत्पत्तिः । करणे ल्युट् । लक्षणं तु लक्ष्यतावच्छेदक रूपेण स्वस्वेतरबोधक पदम् ) अन्यत्राऽपि चागमे एवविधसूत्रादनुक्तार्थ-सिद्धेः, उक्तं च
“गोसमुहणंतगादी, आलोइय देसिएय अइयारे ।
सव्वे समाणइत्ता, हियए दोसे ठविज्जाहि ।।१॥" अत्र मुखवस्त्रिकामात्रोक्तेः, आदिशब्दान्छेषोपकरणादिपरिग्रहोऽवसीयते, सुप्रसिद्धत्वात्, प्रतिदिवसोपयोगाच्च न भेदेनोक्त इति,
अनियतत्वाद् दिवसातिचारस्य एवेहादिशब्देन सूचनं, अर्थात् , शास्त्रकथनानुसारेण 'प्रातर्मुखवस्त्रिकादि प्रतिलेख्येत्यादि. अत्र केवल–साक्षात्, शब्देन मुखवस्त्रिका-मात्रस्य ग्रहणमस्ति, परन्तु, उपलक्षणरूपादिशब्देन, शेषोपकरणादेब्रहणं क्रियते, यतः सुप्रसिद्धत्वेन प्रतिदिनोपयोगेन च कारणेन पृथक्त्वेन न कथितः,
प्रश्नः-यदि दिवसातिचारस्य तु अनियतत्वेनात्रादिशब्देन सूचनं युक्तं यदा वन्दनन्तु नियतमेव तदा वन्दनं साक्षाच्छन्देन कथं न गृहीतम् !
समाधान-तत्रापि रजोहरणाद्युपध्युत्प्रेक्षणस्य नियतत्वात् , समानजातीयोपादानादिह, एतद्ग्रहणमस्त्येव, अर्थात् प्रतिलेखनप्रसङ्गे रजोहरणादिरूपोपधेः प्रतिलेखनं नियतमेव नियतत्वरूपसाजात्येन समानजातीयोपादानाद्, शेषोपकरणादि गृहीत तथा नियतत्वसाजात्येन वन्दनं गृहीतमेव.
शङ्का-मुखवस्त्रिकया सह नियतत्वरूपसमानजातीय-शेषोपकरणस्यादिशब्दतो ग्रहणं वरमस्तु परन्त्वत्र चैत्यवन्दनग्रहणं किं साजात्यमस्ति !
समाधान प्रतिक्रमणादेः, अष्टश्वासोच्छ्वासप्रमाणरूपस्य कायोत्सर्गस्य साजात्यं ज्ञेयम् , तथा च प्रतिक्रमणग्रहणे, आदिशब्दतः, चैत्यवन्दनादेरष्टश्वासोच्छ्वासरूपैकसमानजातिमत्त्वं सर्वस्य ग्रहणं ज्ञेयं-तत्रापि तन्मानकायोत्सर्गलक्षणं समानजातीयत्वमस्त्येवेति मुच्यतामभिनिवेशः,