________________
ललित विस्तरा संस्कृतटीका
प्रसङ्गदोष आयात्, अर्थादन्यस्याऽपि सूत्रस्योच्चारणं प्रस्तुतप्रयोजनभिन्नप्रयोजनार्थे भविष्यति. कायोत्सर्गवन्दनाद्यर्थ प्रकृतदण्डकस्योच्चारणं तदर्थवत्त्वेन न प्रकृतदोषः, यदि कायोत्सर्गयुक्त - वन्दनमेव प्रकृतदण्डकस्यार्थः ( प्रयोजनं ) एवं तर्हि सूत्रमुच्चार्य कायोत्सर्गः कर्त्तव्यः,
शङ्का = केवलं प्रलम्बितभुजद्वन्द्वमात्रेण कायोत्सर्गकरणं कथं न युक्तम् ?
प्रत्युत्तरं = तस्य नित्यप्रमाणत्वात् चेष्टाऽभिभवभेदेन द्विप्रकारत्वाद् अर्थात् कायोत्सर्गस्य नित्य - नियतप्रमाण (परिमाण) त्वात् जघन्यतोऽप्यष्टश्वाससोच्छ्वासादिप्रमाणनियतत्वात्, स कायोत्सर्गचेष्टाऽभिभवभेदेन द्विप्रकारो भवति.
,
6
( यः कायोत्सर्गः ' गमनागमनाऽनन्तरं, विहाराऽनन्तरं अथवा दिनान्ते, निशान्ते, पक्षान्ते, चतुर्मास्यन्ते, संवत्सरान्ते, नियतप्रमाणत्वेन क्रियते, स चेष्टाकायोत्सर्गः ' कथ्यते, यः कायोत्सर्गः, तितिक्षाशक्तिविकासाय, अर्थात् परिषहाणां जयाय, वन - प्रेतवननिर्वरुतिकादिस्थलेषु गत्वा क्रियते स 'अभिभवे' त्युच्यते. )
उक्तं च
८८
सो उसग्गो दुविहो चेट्ठाए अभिभवे य णायव्वो । भिखारियाइ पढमो उवस्सगा - भिओ-जणे बीओ || "
દુ
तथाहि भिक्षाचर्यायां ( भिक्षाऽऽदेर्गमनागमनाद्यनन्तरं ) प्रथमः कायोत्सर्गः, उपसर्गसहनायाऽथवा परिषहादिजये द्वितीयोऽभिभवकायोत्सर्ग इति द्विधा कायोत्सर्गो भवति एष प्रकृतकायोत्सर्गेऽपि प्रकारद्वयमध्यतः, एकः प्रकारो भाव्यः, अन्यथा कायोत्सर्गत्वाऽयोगात्, अयं प्रकृतकायोत्सर्गः, अभिभवनामकः कायोत्सर्गो नास्त्येव, यतोऽभिभवकायोत्सर्गस्य लक्षणस्याऽभावोऽस्ति स एकरात्रिकी प्रतिमादौ घटते
किञ्च चेष्टाकायोत्सर्गस्य चाणीयसोऽप्युक्त (अष्टश्वासोच्छ्वास - ) मानो भवति. (जीतकरूपाख्यागमे उक्तं च "उद्देश - समुद्देशे सत्तावीशं अणुण्णवणियाए ।
अव उसासा पट्ठवण - पडिक्कमणमादि ॥
""
अर्थ=उद्देशे अर्थाद् विधिपूर्वकं गुरुणा सूत्रप्रदाने, समुद्देशे - तदनन्तरं गुरुणा विधिपूर्वकमर्थप्रदाने, अनुज्ञायां = सूत्रार्थविषयकस्थिर - परिचयाभ्यासानन्तरं गुरुणाऽऽज्ञा दीयते यत् सूत्रार्थधारणाऽन्यपात्रे प्रापणं गुरुगुणैर्वृद्धि - प्राप्ति - रूपाऽज्ञाऽथवाशीर्वादो दीयते, एतदुद्देशसमुद्देशानुज्ञानिमित्तेऽपि कायोत्सर्गः सप्तविंशतिश्वासोच्छ् श्वास-प्रमाणो भवति.
तथा प्रस्थाने-कालिकसूत्रस्वाध्यायात् प्राक् सूत्रस्वाध्यायस्य प्रारम्भिक विधौ प्रतिक्रमणे