________________
ललितविस्तरा संस्कृत टीका
तोयत्वमस्त्येवेति मुच्यतामभिनिवेशः, न चेदं साध्वादिलोकेनानाचरितमेव, क्वचित्तदाचरणोपलब्धेः आगमविदाचरणश्रवणाच्च, न चैवंभूतमाचरितमपि प्रमाणं, तलक्षणायोगाद, उक्तं च
असढेण समाइणं, जं कत्थइ केणई असावज्जं । ण णिवारियमण्णेहि य, बहुमणुमयमेयमायरियं ॥ १ ॥ "
६४
66
"
न चैतत् सावद्यं, सूत्रार्थाविरोधात् सूत्रार्थस्य प्रतिपादितत्वात् तस्य चाधिकतरगुणान्तरभावमन्तरेण तथाऽकरणविरोधात, न चान्यैरनिवारितं तदासेवनपरैरागमविद्भिर्निवारितत्वाद्, अत एव न बहुमतमपीति भावनीयम्, अलं प्रसङ्गेन, यथोदितमान एवेह कायोत्सर्ग इति ।
"
पं०..." उक्तार्थेत्यादि ” उक्तो - व्याख्यातः कायोत्सर्गलक्षणोऽर्थः - अभिधेयं यस्य प्रकृतदण्डकस्य तद्भावस्तत्ता तस्यां “चः " पुनरर्थे “ उक्ताविरोधात् " अष्टोच्छवासमानकायोत्सर्गाविरोधाद् “अथेति" पराकूतसूचनार्थः " भवतु " प्रवर्त्ततामयं नियतप्रमाणलक्षणे वन्दनाद्यर्थकायोत्सर्गकरणेऽभ्युपगम्यमाने, एवं तर्हि किमत्र क्षुण्णमिति आह-न पुनः न त्वयं दण्डका कायोत्सर्गः " इतिः " पर वक्तव्यतासमाप्त्यर्थः ॥
टी० ... इह च प्रमादमदिराऽपहतचेतसो यथावस्थितं भगवद्वचनमनालोच्य तथाविधजनासेवनमेव प्रमाणयन्तः पूर्वाऽपरविरुद्ध मित्थमभिदधति.
पूर्वपक्षः = उत्सूत्रमेतद्= जघन्यतोऽप्यष्टोच्छ्वासप्रमाण-कायोत्सर्गस्य कथनमूत्सूत्रं (कायोत्सर्गसूत्रतो विरुद्धं ) साध्वादिलोकेनाऽनाचरितत्वात् .
उत्तरपक्षः=एतच्चायुक्तं,
अधिकृतकायोत्सर्ग सूत्रस्यैवार्थान्तराभावात्, किञ्च कायोत्सर्गGush कायोत्सर्गस्यार्थव्याख्याने जघन्यतोऽप्यष्टश्वासोश्वासप्रमाण - कायोत्सर्गस्य विरोधो नास्ति. पूर्वपक्षः = अथ भवत्वयमर्थः कायोत्सर्गकरणे = एष ( नियतप्रमाणस्य कायोत्सर्गरूपः ) अर्थः कायोत्सर्गकरणे भवतु, परन्तु (कन्दनादिनिमित्तस्य) एष स कायोत्सर्गे नास्ति.
उत्तरपक्षः = कायोत्सर्ग सूत्ररूपदण्डकस्योच्चारणं किमर्थ ! वन्दनार्थमिति चेत्-दण्डकस्य वन्दनार्थमुच्चारणमिति कथने प्रकृतदण्डकस्य, कायोत्सर्गरूपार्थशून्य-प्रकृतदण्डकोच्चारणेऽति