________________
ललितविस्तरासंस्कृत टीका
भुजप्रलम्बमात्रः क्रियत एवेति चेत्, न तस्य नित्यप्रमाणत्वात्, चेष्टाभिभवभेदेन द्विप्रकारत्वाद्, उक्तं च
“ सो उस्सग्गो दुविहो, चेट्ठाए अभिभवे य णायवी । भिखारियाइ पढमो, उवसग्गभिओजणे बीओ ॥ १ ॥ " अयमपि चानयोरेवान्यतरः स्यात् अन्यथा कायोत्सर्गत्वायोगः, न चाभिभवकायोत्सर्ग एषः, तल्लक्षणायोगात्, एकरात्रिक्यादौ तद्भावात् चेष्टाकायोत्सर्गस्य चाणी यसो ऽप्युक्तमानत्वात् उक्तं च
“ उद्देससमुद्दे से, सत्तावीसं अणुण्णवणियाए । अद्वेव य उस्सासा, पट्टवणपडिक्कमणमादी ॥ १ ॥ ”
"
अत्रायं न गृहीत इति चेत् न, आदिशब्दावरुद्धत्वाद्, उपन्यस्तगाथासूत्रस्योपलक्षणत्वाद्, अन्यत्रापि चागमे एवंविधसूत्रादनुक्तार्थसिद्धेः, उक्तं च
"गोसमुहणंतगादी, आलोइय देसिए य अइयारे । सव्वे समाणइत्ता, हियए दोसे ठवेज्जाहि ॥ १ ॥
""
"
६३
अत्र मुखवस्त्रिकामात्रोक्तेः आदिशब्दाच्छेषोपकरणादिपरिग्रहोsवसीयते, सुप्रसिद्धत्वात् प्रतिदिवसोपयोगाच्च न भेदेनोक्त इति, अनियतत्वात् दिवसा तिचारस्य युज्यत एवेहादिशब्देन सूचनं, नियतं च चन्दनं, तत्कथं तदसाक्षादग्रह इति चेत्, न, तत्रापि रजोहरणाद्युपधिप्रत्युपेक्षणस्य नियतत्वात्, समानजातीयोपादानादिह एतद्ग्रहणमस्त्येव, समानजातीयं च मुखत्रत्रिकायाः शेषोपकरणमिति चेत्, तत्रापि तन्मानकायोत्सर्गलक्षणं समानजा