________________
६२
ललितविस्तरासंस्कृतटीका काये वर्त्तते, एतादृशो योऽध्यासः-मिथ्याज्ञान-तादात्म्यं त्यक्तव्यमित्येतदपेक्षया सर्वथा काय व्युत्सृजामि,
अथवा सर्वथा कायोत्सर्गदशायां " स्थान-मौन-ध्यान " रूप क्रियात्रयभिन्नसर्वकायव्यापारानपेक्ष्य, काय सर्वथाऽहं व्युत्सृजामि, अर्थात् क्रियाऽऽधारभूतशरीरतः स्थान-मौनध्यानानि विना सर्वकाय-व्यापारान् कायोत्सर्गे व्युत्सृजामीति, अपेक्षयाऽहमपि मम कायं त्यजामीति कथ्यते.
नमस्कारपाठं यावत्प्रलम्बभुजो "प्रलम्बितभुजद्वन्द्वमूर्ध्वस्थस्याऽऽसितस्य वा स्थानं कायानपेक्षं यत्, कायोत्सर्गः स कीर्तितः॥" निरुद्धवाक्प्रसरः प्रशस्तध्यानाऽनुगतस्तिष्ठामीति, ततः कायोत्सर्ग करोमीति । जघन्योऽपि तावदष्टोच्छ्वासमानः ।
" पायसमा उसासा, कालयमानेन इंति नायव्वा ।
एवं कालप्रमाणेन उस्सग्गेण तु नायव्वं ॥" अत्रोच्छवासस्य प्रमाण एकगाथाया एकपादोच्चारणमात्रं न तु नासिकायाः श्वासोश्वासमानं ।
अर्थाद् यावत् 'नमो अरिहंताणं ' इति पदमुच्चार्य, न पारयामि तावत्प्रलम्बभुजः, निरुद्धवाक्प्रसरः, प्रशस्तध्यानाऽनुगतस्तिष्ठामीति.
अथ शास्त्रकारः केवलं प्रलम्बित-भुजद्वन्द्वपूर्वक एव कायोत्सर्गो भवति, जघन्यतोऽप्यष्टश्वासोच्छ्वासप्रमाणः कायोत्सर्गो • भवतीति मतं खण्डयित्वा प्रलम्बित-भुजद्वन्द्वपूर्वको जघन्यतोऽप्यष्टश्वासोच्छ्वास-प्रमाणः कायोत्सर्गों भवतीति विषयस्य निपुणनिरूपणम्
इह च प्रमादमदिरामदापहतचेतसो यथावस्थितं भगवद्वचनमनालोच्य तथाविधजनासेवनमेव प्रमाणयन्तः पूर्वापरविरुद्धमित्थमभिदधति-उत्सूत्रमेतत् , साध्वादिलोकेनानाचरितत्वात् , एतच्चायुक्तं, अधिकृतकायोत्सर्गसंघस्येवार्थान्तराभावात् , उक्तार्थतायां चोक्ताविरोधात्, अथ भवत्वयमर्थः कायोत्सर्गकरणे न पुनरयं स इति, किमर्थमुच्चारणमिति वाच्यं, वन्दनार्थमिति चेत्, न, अतदर्थत्वात्, अतदर्थोच्चारणे चातिप्रसङ्गात् , .
कायोत्सर्गयुक्तमेव वन्दनमिति चेत् , कर्त्तव्यस्तर्हि स इति,