________________
ललितविस्तरासंस्कृतटीका
अथ शास्त्रकारः 'जाव अरिहंताणं' पदतो 'न पारेमि' पर्यन्त-चतुष्पदेषु कायोत्सर्गे कियत्कालं स्थितिः ? तस्य कालनियमस्य दर्शितत्वात् , चतुप्पदवती सप्तमी कायोत्सर्गावधि ( कायोत्सर्गस्य मर्यादारूपा) सम्पद् वर्त्तते, तदनन्तरं 'तावकाय' पदतः 'वोसिरामि' पर्यन्ते पदषट्के कायोत्सर्गः कया रीत्या कर्त्तव्यः, तस्य स्वरूपं दर्शितं, तस्मात्पदषट्कवती, अष्टमी सम्पदं दर्शयति.
कियन्तं कालं यावत्तिष्ठाभीत्यत्राह कालस्थिति-नियमं दर्शयति, ( यावदर्हद्भगवतो नमस्कारेणार्थात् 'नमो अरिहंताणं' इत्येतत्पदोच्चारणेन न पारयामि) " जावअरिहंताणमित्यादि" यावदिति-कालावधारणे, अशोकाद्यष्टमहाप्रातिहार्यलक्षणां पूजामहन्तीत्यर्हन्तस्तेषामहता, भगः-समप्रैश्वर्यादिलक्षणः स विद्यते येषां ते भगवन्तः, तेषां सम्बन्धिनां नमस्कारेण,
(अशोकवृक्षः सुरपुष्पवृष्टि-दिव्यध्वनिश्चामरमासनं च ।
भामण्डलं दुन्दुभिरातपत्रं, सत्प्रातिहार्याणि जिनेश्वराणाम् ।। ) __नमो अरिहन्ताणंति' अनेन ( पदोच्चारणेन ) 'न पारयामि' न पारं गच्छामि कायोत्सर्ग पूर्ण न करोमि ) तावत् किमित्याह-" तावकायं ठाणेणं मोणेणं झाणेणं अप्पाणं वोसिरामि” 'तावत्काय'=तावच्छब्देन कालनिर्देशमाह कायं-देहं 'स्थानेन'-ऊर्ध्वस्थानेन हेतुभूतेन, तथा मोनेन वामिरोधलक्षणेन तथा 'ध्यानेन -धर्मध्यानादिना 'अप्पाणंति' प्राकृतशेल्या, आत्मीयम् , ( आत्मीयं देहं ) अन्ये न पठन्त्येवैनमालापकं ( केचित् 'अप्पाणं' इत्यालापकं न पठन्ति ) 'व्युत्सृजामि' परित्यजामि,
'धर्मध्यानादि'ना धर्मध्यानं मैन्यादिभेदेन चतुष्प्रकारक ध्यानं (१) मैत्रीध्यान= परजीवविषयकं हितचिन्तन (२) करुणा=परदुःखप्रहाणविषयकेच्छा (३) प्रमोद भा. परसुखादि विषयकसन्तोष-आनन्दः, (४) उपेक्षा भा.=परजीवनिष्ठदोषोपेक्षणम् , एतद्भावनाचतुष्टयं धर्मध्यानपोषकत्वेन रसायनकल्पं ।।
(१) आज्ञाविचयध्यानं जिनानामाज्ञा विषयकचिन्तनं (२) अपायविचयं सांसारिककष्ट -दुःखादिचिन्तनरूपं (३) विपाकविच यं कर्मफल-परिणामचिन्तनरूपं (४) संस्थानविचयं= लोकाकृतिचिन्तनरूपं )
इयमत्रभावना-"कायं स्थानमौनध्यानक्रियाव्यतिरेकेण क्रियान्तराध्यासमधिकृत्य व्युत्सृजामि"
सर्वथा कायोत्सर्गदशायां स्थान-मौन-ध्यानरूपक्रियां विहाय तदन्यसर्वकायव्यापारविषयकं मिथ्याज्ञानजन्यं तत्तादात्म्यं व्युत्सृजामि-अर्थात् स्थानादिक्रियात्रयभिन्न-सर्वकायक्रिया,