________________
ललितविस्तरासंस्कृतटीका खण्डितम् , उक्तवदभक्त्ययोगात्=पूर्वोक्तवद् अभक्तिरूपहेतो ोगो न तिष्ठति, यतो भक्तियोगो वर्तमानोऽस्ति, तथाहि का खल्वत्रापेक्षा ? अभिप्वङ्गाभावात् , आगमप्रामाण्या=अभिप्वङ्गस्य -भौतिकलालसारूपासक्तिरूपाऽनिष्टतत्त्वस्याभावो वर्तते तथैवाऽऽगमस्य प्रामाण्यं वर्तते, आभिग्रहिकः ( कायोत्सर्गस्य प्रतिज्ञां कृत्वा सर्वचेष्टा-निरोधकः ) उच्छवासं न रुणद्धि ( निरुन्धन्ति ), किमुत-चेष्टायां ? " सद्यो मरणं निरोधे, सूक्ष्मोच्छवासं तु यतनया" यत उच्छवासनिरोधे सद्यो मरणं ततो यतनापूर्वकं सूक्ष्मोच्छवासो ग्राह्यः ।
शङ्का उच्छ्वासमनपेक्ष्योच्छवासनिरोघे मरणभवने का हानिः ?
समाधानम् न च मरणविधिना प्रशस्यते इति, अर्थादविधिना-विराधनादिपूर्वकं मरणं प्रशंसाऽऽस्पदं न भवति यतः (१) अर्थहानि-मोक्षादिपुरुषार्थस्येष्टफलस्य वा हानिर्भवति.
(२) शुभभावनाद्ययोगात्-शुभस्य भावनादेश्योगो विशिष्टभावनाऽन्तिमाराधनाकारक ( निमित्त-नियामक ) आदेर्योगो न भवति.
(३) स्वस्य श्वासोच्छवासादिप्राणानामतिपातो ( हिंसा) भवति. यतः स्वप्राणातिपातो न कर्त्तव्यः, जीवन्नरो भद्रशतानि पश्यति ( करोति ) पापघातः श्रेयान् स्वप्राणघातो न श्रेयान् ,
(४) अविधिना विधिविरोधेन (विराधना-असदाचारादिद्वारा) मरणस्य शास्त्रे निषेधो विहितो वर्तते. उक्तं च “ सव्वत्थ संजम संजमाओ अप्पाणं रविखज्जा ॥
मुच्चइ अइपायाओ, पुणो विसोही नयाविरई ॥११॥" सर्वत्र (सर्वथा)संयम, संयमतः, आत्मानमेव रक्षेत् , मुच्यतेऽतिपातात् पुनर्विशोधि न चाविरतिः । पूर्व सर्वथा संयमो रक्षणीयः, संयमतोऽपि आत्मानं ( जघन्यचारित्रभावरूपास्मानं) रक्षेत् (जघन्यचारित्रभावरूपापतनरक्षण कार्य) यदि अविधिमरणरूपात् प्राणातिपाततो मुच्यते-द्रव्यजीवनं रक्ष्यते तदा पुनः (प्रायश्चित्तेन) अतिचाराद् विशुद्धिर्भवति. यद्यविरतिमान् भवेत्तदा प्रायश्चित्तादिना स न शुद्धयति, अतोऽविरतितो रक्षितः, प्रायश्चित्तादिना प्राणातिपातादिपापान्मुक्तो भवति, विरतित आत्मरक्षा भवति, तथा च जघन्य-संयमरक्षा भवति, अर्थान् मूलसम्पदःखण्डिततारक्षायै अपवाद-आकारादीनां सेवनमनिवार्यमेवेति.
सारांशः-उच्छवासादेरपेक्षा, रागवत्त्वेन नास्ति, अभिप्वङ्गो नास्ति, तत्रागमस्य साक्षित्वं तथा तत्तदाकारैः, अभक्तिप्रसङ्गाभाव इत्यादिनिरूपणेनालम् ,