________________
ललितविस्तरासंस्कृतटीका
स्वस्वेतरबोधकपदत्वम् ।। ) उपलक्षित-सङ्ग्रहीतरूपेण कृतारन्युपद्रवपञ्चेन्द्रिय-च्छिन्दन ( अन्तराय-मध्येउत्तरणं )-चौरादेर्भयं, सादेर्भयमित्येतद्रपाश्चत्वार आकाराः स्वशरीराद् वाह्यपदार्थानां मूलकारणत्वेन बाह्या उच्यन्ते यतो बाह्यपदार्थद्वारा बाह्याग्निप्रभृतिउपद्रवादि-चतुष्टयाकारा जायन्ते.
उपाधिशुद्धं परलोकानुष्ठानं निःश्रेयसनिवन्धनमिति ज्ञापनार्थममीषामिहोपन्यासः,
( उपाधयो-धर्मानुविद्धाश्चिन्तास्तैः शुद्धमवदात-उपाधयः अपवादप्रकारास्तविशुद्धमकलकितमिति भावः, देशकालाद्यौचित्येन यथा-प्रस्तावनियोजितस्यापवादस्योत्सर्गफलदायित्वेनोत्सर्गविशेषरूपत्वात् )
उपाधिभिः (मिथ्यात्वासंयमादिदोषैः आकारैः ) शुद्धं (रहितं वा पवित्रं ) परलोकहितानुष्ठानं ( पर-उच्चोत्कृष्टमहत्सद्रूप-परलोकहितानुष्ठानं ) निःश्रेयसस्य-मोक्षस्य निबन्धनं विशिष्टकारणं, यत्र यत्रोपाधिशुद्धपरलोकानुष्ठानं तत्र तत्र निःश्रेयसरूपं कार्य, यत्रोपाधिशुद्धपरलोकानुष्ठानं नास्ति तत्र निःश्रेयसरूपकार्य नास्त्येवेति अन्वयव्यतिरेकाभ्यां कार्यकारणनिश्चयो ज्ञेयः । इति ज्ञापनार्थ, अमीषां-आकाराणां ( अपवादविशेषाणां ) इह-अन्नत्थसत्रे (प्रकृतदण्डके) उपन्यासः-विशिष्टरचना विद्यते, किञ्चागमे, उक्तमस्ति “ वयभंगे गुरुदोसो, थेवस्स विपालणा गुणकरीउ ।
गुरुलाघवं च णेयं, धम्ममि अओ उ आगारा ॥" व्रतभङ्गे गुरुदोषो-अपवादविशेषानाकारान् , न प्रतिपद्य, व्रतभङ्गे-सर्वथात्यागे गुरुमहान् दोषः (अप्रतिकार्यदोषः ) कथ्यते. स्तोकस्याऽपि पालना गुणकरी रक्षितस्याऽल्पस्य व्रतस्य (महाव्रतस्य ) (नवकोटीमध्यतः सप्तादिकोटीमयस्य महाव्रतस्य, 'सर्वनाशे समुत्पन्ने अर्घ रक्षति पण्डितः') पालना गुणकरी-लाभकरी यतो गुरुलाघवं ज्ञेय लाभालाभविचारः कर्त्तव्यः, यतो धर्मे (क्रियात्मकचारित्राद्यनुष्ठाने ) यतस्त्वाकाराः ( अपवादाः) कथिताः, अथवा धर्मशास्त्रे, आकाराणां ( आगाराणामतिचार-जातीनामपवादप्रकाराणां ) प्रतिपादनं कृतं वर्तते ॥
एतेन पूर्वकथितप्रतिपादनेन
पूर्वपक्षः अर्हच्चैत्यवन्दनायोद्यतस्य (उद्यमस्य कर्तः उच्छवासनिःश्वासादिरूपाणामाकाराणां सापेक्षत्वम् ( अपेक्षा ) अशोभनमसुन्दरम् , यतः अभक्तिरूपकारणं वर्ततेऽर्थाद् भक्तेरभावो दृश्यते, न हि भक्तिभरनिर्भरस्य क्वचिदपेक्षा युज्यते इति पूर्वपक्षकथितं वचनं प्रत्युक्तं