________________
५
ललितविस्तरासंस्कृतटीका (२) कासितक्षुतजृम्भितग्रहणात्त्वरूपनिभित्ता आगन्तवः, स्वरुपपवनक्षोभादेस्तद्भावात्, अर्थात् सर्वथा कायोत्सर्गेऽतिचारजातिरूपकासित-क्षुत-जम्भिताकारास्त्रयोऽल्पनिमित्तान्यालंव्य जन्यप्रकृतयः सन्ति, यतः स्वल्पपवन-( उदाननामकपवनकृत )-क्षोभभ्रमणविकारादिनोत्पन्नाः कासितक्षुतजम्भिताकारा (वायुप्रभृतिजन्याल्पविकारा) भवन्ति.
(३) उद्गार-वातनिःसर्ग-मि-पित्तमृर्छाग्रहणात् पुनर्बहुनिमित्ता आगन्तव एव, महाऽजीर्णादेस्तदुपपत्तेः, अर्थात् सर्वथा कायोत्सर्गेऽतिचारजातिरूपोद्द्वार-वातनिःसर्ग-भ्रमिपित्तमूर्छाद्याश्चत्वार आकारा वहनि निमित्तान्यालम्ब्यागमनस्वभावा एव यतः महाऽजीर्णअपथ्याहार-विहार-अप्रियवास-मानसिकाघात-तथाविधरोगादि-पित्ताऽतिशय-उदानापानवायुवेगादिजन्योद्गार-वातनिःसर्ग-प्रमि-भानाभावरूपपित्तमूर्छा भवन्ति ( वाताऽजीर्णादिजन्यमहाविकारा आकारा एते भवन्ति.)
(४) सूक्ष्माङ्गखेलदृष्टिसञ्चारग्रहणाच्च नियमभाविनोऽल्पाः, पुरुषमात्रे सम्भवात्, अर्थात् सर्वथा कायोत्सर्गेऽतिचारजातिरूपाणि सूक्ष्मानानां सञ्चरणं, सूक्ष्मं श्लष्मणः सञ्चरणं, सूक्ष्म नेत्रस्य सञ्चरणमित्यादिरूपाणि, त्रीणि सञ्चरणानि, तेषां ग्रहणाच्च नियमतो भाविन आकारा अल्पाः-सूक्ष्मा अलक्ष्या यतः पुरुषमात्रे सकलनरनारीषु सम्भवोऽस्ति.
( सूक्ष्मानसञ्चारः-नेत्रपक्ष्मस्फुरण-कपोलस्फुरण-करपादस्नायूनां संचरण-रोमोद्गमादिसूक्ष्मक्रियाणां, अस्मत्प्रयत्नेच्छाऽनधीनत्वेन सर्वकाले प्रकटनसम्भवेनापवादेऽन्तभावः क्रियते, सूक्ष्मश्लेष्मसञ्चार एतस्याः क्रियायाः शरीरे सातत्येन सञ्चरण, वायुः श्लेष्म गृहीत्वा भिन्नभिन्नस्थाने नयति, क्वचित् तस्य वेगातिशयेनास्माकं ज्ञानमपि भवति यदन्तः श्लेष्मणः सञ्चरणं चलति, एषोऽपि, एकजातीयः सूक्ष्मकायव्यापारोऽस्ति, तथापि-अनिवार्यत्वेन-अनियन्त्रणीयत्वेनाऽस्यान्तर्भावोऽपवादेऽस्ति.
___ सूक्ष्मदृष्टिसञ्चारः-अक्षिपक्ष्मादिसञ्चारःएषोऽपि, एकप्रकारकसूक्ष्मकायव्यापारोऽस्ति, तथापि नियन्त्रणरहितत्वेनाऽपवादेऽन्तर्भावः कृतोऽस्ति. )
(५) एवमाद्युपलक्षितग्रहणाच्च बाह्यनिबन्धना वाद्यास्तद्वारेण प्रसूतेरिति, अर्थात् सर्वथा कायोत्सर्गेऽतिचारजातिलक्षणेन ‘एवमादि' रूपेणोपलक्षणपदेन ( एवमादिपदमुपलक्षणं, अजहत् स्वार्थलक्षणयाऽन्यग्राहकमित्युपलक्षणलक्षणेनाम्यायन्यपदार्थानां चतुर्णा ग्रहणं बोध्यम् । 'वाक्यार्थाऽन्वयिमुख्यार्था मिश्रित-मुख्यार्थाऽन्यपदार्थोपस्थितिरूपमुपलक्षण-लक्षणमपि ' बोध्यम् । उपलक्ष्यते स्वं स्वेतरचानेनेति व्युत्पत्तिः । करणे न्युट् । लक्षणं तु लक्ष्यताऽवच्छेदकरूपेण