Book Title: Lalit Vistarakhya Chaitya Stavvrutti
Author(s): Bhadrankarsuri, Vikramsenvijay
Publisher: Bhuvan Bhandrankar Sahitya Prachar Kendra

View full book text
Previous | Next

Page 390
________________ ४२ ललितविस्तरासंस्कृतटीका _ "मन्देत्यादि" मन्दो-मृदुस्तीत्रः-प्रकृष्टः, आदिशब्दात्तदुभयमध्यवर्ती मध्यमः, त एव भेदाविशेषा येषां ते तथा “चः” समुच्चये “ एते" श्रद्धादयः, किंविशिष्टा इत्याह-" तथा " तेन प्रकारेण ये आदरादयो वक्ष्यमाणास्त एव लिङगं-गमकं येषां ते तथा, "इतिः" वाक्यसमाप्तौ, ननु कथमेषां लिङ्गत्वं सिद्धमित्याह-“न” नव "अतद्वतः" अश्रद्धादिमतो यत इति गम्यते "आदरादि " वक्ष्यमाणमेव “इति" अतः श्रद्धादिकारणत्वाल्लिङ्गमिति, ततः किं सिद्धमित्याह-“अतः” श्रद्धादिकारणत्वात् “तदादरादिभावे" तत्र-कायोत्सर्गे आदरादेः लिङ्गस्य भावे-सत्तायाम् “ अनाभोगवतोऽपि" चलचित्ततया प्रकृतस्थानवर्णाद्युपयोगविरहेऽपि किंपुनरा. भोगे ? इत्यपिशब्दार्थः, “ एते" श्रद्धादयः कार्याविनाभावित्वात् कस्यचित् कारणस्य यथा प्रदीपस्य प्रकाशेन वृक्षस्य वा च्छायया, इतिर्वाक्यसमाप्तौ ॥ । अतो मन्दतया श्रद्धादीनामनुपलक्षणे, अपि, आदरादिभावे सूत्रमुच्चारयतोऽपि न प्रेक्षावत्ताक्षतिः, परमतेनापि श्रद्धादीनां मन्दतीव्रादित्वं साधयन्नाह-" इक्षुरसगुडखण्डशर्करोपमाः" इक्ष्वादिभिः पञ्चमिर्जनप्रतीतैरुपमा-सादृश्यं येषां ते तथा “चित्तधर्माः' मनःपरिणामा " इति" एतस्यार्थस्य “ अन्यैरपि" तन्त्रान्तरीयैः, किं पुनरस्माभिः १ “ अभिधानात्" भणनात्, प्रकृतयोरेवोपमानोपमेययोर्योजनामाह-" इक्षुकल्प च" इक्षुसदृशं च “तद्" आदरादि' तस्मिन्-कायोत्सर्गे आदरः-उपादेयभावः आदिशब्दात्करणे प्रीत्यादि “इति” अस्मात्कारणाद् "भवति" सम्पद्यते " अतः" इक्षुकल्पादादरादेः “क्रमेण " प्रकर्षपरिपाट्या "उपायवतः" तद्धेतुयुक्तस्य शर्करा-सिता आदिशब्दात्पश्चानुपूर्व्या खण्डादिग्रहः तत्सम प्रकृतसूत्रोपात्तं श्रद्धामेधादिगुणपञ्चकम् “इतिः” परिसमाप्तौ । आह-किमिति दृष्टान्तान्तरव्युदासेनेक्ष्वाद्यपमोपन्यास इत्याशङ्कयाह " कषायादिकटुकत्वनिरोधतः” कषायाः-क्रोधादयः, आदिशब्दादिन्द्रियविकारादिग्रहस्त एव कटुकत्व-कटुकभावस्तस्य निरोधादात्मनि किमित्याह-"शममाधुर्यापादनसाम्येन" शमः-उपशमः स एव माधुर्य-मधुरभावः प्रीणनहेतुत्वात् तस्यापादन-विधान तेन तस्य वा साम्य-सादृश्य तेन · चेतसो” मनसः “ एवम्” इक्ष्वाद्यपमानोपमेयतयोपन्यास आदरादीनाम् " इतिः" परिसमाप्तौ, उपायवत इति प्रागुक्तम्, अत उपायमेव दर्शयति-" एतदनुष्ठानमेव च " प्रकृतकायोत्सर्गविधानमेव न पुनरन्यत् “चः" समुच्चये “ एवम्” इति सामान्येनादरादियुक्तम् "इहेति" शर्करादिप्रतिमश्रद्धादिभवने “ उपायो" हेतुः, कुत इत्याह-" तथा तथा” तत्तत्प्रकारेण “ सद्भावशोधनेन” शुद्धपरिणामनिर्मलीकरणेन " इति” एतत् " परिभावनीय " अन्वयव्यतिरेकाभ्यामालोचनीयमेतद् । इदमपि परमतेन संवादयन्नाह-उक्तं च टी०...यत् प्राक् 'करोमि कायोत्सर्गमिति वाक्यं कथितं तत्र 'करोमि' रूप-क्रियापदस्य वर्तमानकालीनो यः प्रयोगः स भविष्यत्कालीनार्थवान् ('सत्सामीप्ये सद्वद्वा'

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444 445 446 447 448 449 450 451 452 453 454 455 456 457 458 459 460 461 462 463 464 465 466 467 468 469 470 471 472 473 474 475 476 477 478 479 480 481 482 483 484 485 486 487 488 489 490 491 492 493 494 495 496 497 498 499 500 501 502 503 504 505 506 507 508 509 510 511 512 513 514 515 516 517 518 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550