Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 99
________________ हलन्तपुंल्लिङ्गप्रकरणम्। कृते सामर्थ्यात्पूर्व दीर्घप्रवृत्तिरेव कल्प्यत इति भावः । . ननु ( एकानुबन्धकग्रहणे न द्वयनुबन्धकग्रहणमि )ति परिभाषयाऽतुपदेन मतुपोऽग्रहगाद्धीमानित्यादौ 'अत्वसन्तस्येति दी? न स्यात् । न च सूत्राऽऽरम्भसामर्थ्यादीर्घः स्यादेवेति वाच्यम् । अनुनासिकोकारविशिष्टे भवतुशन्दे सूत्रस्य चारितार्थ्यादिति चेन्न । पकारस्य समुदायाऽनुबन्धत्वेऽप्यतुमात्रस्य द्वयनुबन्धाऽभावात । अतु इति लुप्तषष्ठयन्तं पृथक् पदं तथाचाऽधातोरित्यसन्तस्यैव विशेषणं नत्वत्वन्तस्य, तु शब्दादित्यभिप्रायेणाहधातोरप्यत्वन्तस्य दीर्घ इति ॥ ननु 'उगिदचामिति सूत्रेधातोरित्यस्य सत्त्वेन धातोर्नुमोऽप्राप्त्या क्यजन्तादिगो. मच्छब्दस्य धातुत्वाऽभावान्नुम्नस्यादित्यत आह-उगिदचामिति सूत्रेऽजाहणं नियमार्थमिति । अयमाशयः, अञ्चतेरुगित्वादेव नुमि सिद्धेऽग्रहणसामर्यादातोश्चे. दुगित्कार्य वञ्चतेरेवेति नियमादन्यधातोर्नुमोऽप्राप्त्या तव्यावृत्त्यर्थ कृतमधातुग्रहणं व्यर्थ सज्ज्ञापयति अधातुभूतपूर्वस्यापिनुम्भवतीति तेन गोमतः सम्प्रति धातुत्वाऽभावे. पि भूतपूर्वधातुत्वमादाय नुम्सिद्धिरिति । न च पूजाऽर्थकस्य नुम्नेति नियमसम्पादना. याऽञ्चतेश्चेनलोपिन एवेति नियमकरणादग्रहणस्य चारितायेंनोकाऽथे ज्ञापकत्वन्न सम्भवतीति वाच्यम् । अचामित्यत्र नलोपस्याऽविवक्षितत्वेन सामान्याऽपेक्षनियमस्यैवौचि. त्यात् । अग्रहणकृतस्य धातोश्चेदुगित्कार्यमिति नियमस्य फलं तु उखास्नत्, पर्णध्वदि. त्यादौ नुम्-डीपोरभावरूपमिति दिक ॥ ननु तादृश् इति स्थितौ निशादिशब्दे ऋत्विगादिशब्दे च चरितार्थयो 'र्घश्चेतिः किन्प्रत्ययस्येति सूत्रयोः परत्वातिवन्प्रत्ययस्येति कुत्वशास्त्रे प्राप्ते पूर्वत्राऽसिद्धमित्यनेन षत्वविधायकशास्त्रदृष्टया कुत्व विधायकशास्त्रस्याऽसिद्धत्वप्रतिपादनात्षत्वमेवेत्याऽऽशयेनाहकुत्वस्याऽसिद्धत्वाद्मश्चेति ष इति ।। ननु किन्प्रत्ययस्य कुरित्यस्य स्थाने कुः क्विन्यत इति न्यासेन दृष्ट इत्यध्याहारेण च बहुव्रीहिफलोपपत्तौ तदर्थ कृतस्य प्रत्ययग्रहणस्यान्यपदार्थीशे वीप्सागर्भबहुब्रीहिलामा. र्थत्वेन प्रतिलक्ष्य लक्षणोपप्लवात्ताशादिकिनन्तविषयस्य लक्षणस्य कुत्वविधायकस्याऽ. चरितार्थत्वेन षत्वाऽपवादत्वात्कृत्वमेवेत्यभिप्रेत्याह-षत्वाऽपबादत्वात्कुत्बेनेति । खकार इति । अघोष-महाप्राणसाम्यादिति भावः । कैयट इति । क्विन्प्रत्ययस्य कुरित्येतत्सूत्रस्थकैयट इत्यर्थः । जश्त्वं प्रति कुत्वस्यासिद्धत्वादिति । न च कुत्व. स्य जश्त्वस्याऽव्यपवादत्वेन कथं मुलोक्तसङ्गतिरिति वाच्यम् । कुत्वस्य शस्थानिकजस्त्व. स्यैवाऽपवादत्वं न तु खकारस्थानिकस्याऽऽपीत्यदोषात् । वस्तुतस्तु प्रत्ययग्रहणस्य बहु. बीहिमात्रफलकत्वस्यैव भाष्यकृतोक्तत्वाच्चिन्त्यमिदम् । तस्माद् ऋत्विगित्याधंशे चरितार्थस्य कुत्वस्य न जश्त्वापवादत्वं युक्तमिति तन्मत इति वदता सूचितमित्यलम् ।। ननु 'नुम्विसर्जनीय-शर्व्यवायेऽपीति सूत्रेण नुमादिव्यवहितसकारस्य षत्वविधाना. न्निस्वेत्यत्र नुम्-शभ्यां व्यवहितप्रत्ययभूतसकारस्थानिकषत्वस्य दुरत्वात्तनिवृत्त्यर्थ कृतस्य (निसेःप्रतिषेधो वक्तव्य ) इति वार्तिकस्य प्रत्याख्यानं विधाय, योगविभागासिद्धम् , तद्यथा नुम्व्यवाये शर्व्यवाये इति स हि योगविभागः कर्त्तव्यो न कर्त्तव्यो Aho ! Shrutgyanam

Loading...

Page Navigation
1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144 145 146 147 148 149 150 151 152 153 154 155 156 157 158 159 160 161 162 163 164 165 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280