Book Title: Fakkika Ratna Manjusha
Author(s): Kanaklal Thakur
Publisher: Harikrishna Nibandh Bhawan Benaras

View full book text
Previous | Next

Page 210
________________ ६४ फक्किकारत्नमञ्जूषा । परम्परया बोध्यः । तत्र जातेरेकत्वेनैकवचनं प्राप्नोतीत्यस्यारम्भः । अत्रैकत्वञ्च बहुवचनार्थः। एकस्मिन्नर्थे वर्तमानः शब्दो बहूनामर्थानां वचनं बोधको भवतीत्यर्थादर्थातिदेशोऽयमित्याह-एकोऽप्यर्थो बहुव भवतीत्यादि । तदुक्तम्भाष्ये (यावद्यादेकोऽर्थो बहुबद्भवतीति तावदेकस्मिन्बहुवचनमिती) ति । एकत्वेऽर्थे बहुत्वप्रयुक्तस्य कार्यस्यातिदेशात्कार्यातिदेश एवेति बोध्यम् । जातौ संख्यान्वये एकवचनस्य व्यक्तौ संख्याऽन्वये बहुवचनस्य सिद्धत्वादनावश्यकत्वेन भाष्ये प्रत्याख्यातमेतत्सूत्रम् । एवञ्च यथोत्तरं मुनोनां प्रामाण्यात्सूत्रोक्तार्थेऽसाधुत्वमेव प्रयोगाणामिति बोध्यम् । सविशेषणस्य प्रतिषेध इति । मुख्याथें बहुवचननिषेधार्थमिदं वार्तिकम् । यदा तु अस्मच्छब्दस्य स्वघटिते उद्भूताऽवयभेदे समुदाये लक्षणा तदा बहुवचनं भवत्येव, तेन त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः । इत्यादि सिद्धम् । गार्योऽहं ब्रवीमीत्यादावयं निषेधः । उत्तमपुरुषाऽनुरोधेनाऽत्राह. मित्यस्य स्वविशेष्यत्वादित्यलम् ॥ ननु 'सभाराजाऽमनुष्यपूर्वे' त्यत्र सभेत्येको योगः, राजाऽमनुष्यपूर्वेत्यपरो योगः, तत्र सभान्तस्तत्पुरुषो नपुंसकं स्यादित्यर्थकेन सभेतियोगेनैव स्त्रीसममित्यत्र नपुंसकत्वे सिद्धे 'अशाले ति सूत्रं व्यर्थमित्यभिप्रायेणाशइते-पाशाला किमिति । समाधत्ते-ध. मसभेति । धर्मशालेत्यर्थः । अयमभिप्रायः, इनसभम् , ईश्वरसभमित्यत्रापि पूर्वयोगेनैव नपुंसकत्वोपपत्तौ व्यर्थः सन्नुत्तरयोगो ज्ञापयति स्त्रीत्वेतरलिङ्गविशिष्टप्राणिवाचकपूर्वपदक. स्य सभान्तस्य तत्पुरुषस्य नपुंसकत्वञ्चेतहि राजाऽमनुष्यपूर्वपदकस्यैव स्यादेवञ्च स्त्रीत्वेतरलिङ्गविशिष्टप्राणिवाचकपूर्वपदकेतरत्वेन पूर्वयोगे संकोचे कृते स्त्रीत्वेतरलिङ्गविशष्टप्राणिवाचकपूर्वपदकेतरत्वाऽभावेन इनसभमीश्वरसभमित्यत्र नपुंसकत्वार्थमुत्तरयोगस्यावश्यकत्वेन स्त्रीसभमीत्यत्रेव धर्मसभेत्यत्रापि नपुंसकत्वापत्तिरिति तदर्थमशालेति सूत्रमावश्यकमे. वेति दिक् ॥ इति तत्पुरुषः ॥ अथ बहुव्रीहिसमासप्रकरणम् । शेषो बहुब्रीहिः । असर्वोपयोगार्थकाच्छिषेः कर्मणि घना निष्पन्नस्य सूत्रघटकशेष. पदस्योपयुक्तादन्यपरत्वेन यस्य पदस्याऽर्थस्य वा पूर्वनोपयोगस्तस्य पूर्वमप्रसिद्धिमभिधाय भाष्यकृता सिद्धान्तितं त्रिकतः शेष एत्येतन्मूलकव्याख्यानात् शेष इत्यस्य प्रथमान्तत्वारः । तेन प्रथमान्ताऽपेक्षशेषस्यैव ग्रहणमिति बोध्यम् । पदतः शेषस्य ग्रहणे सामन्यतो विशेषतो वा यस्य पदस्योपयोगस्तदन्याऽप्रसिद्धिः, 'सुप्सुपे' त्यत्र समान्यतः, द्वितीयाश्रिते, त्यादौ विशेषत उपयोगः । अर्थोऽपि, पूर्वपदार्थप्रधानत्वेऽन्यपदार्थप्रधानत्वे चा. ऽव्ययीभावः । उत्तरपदार्थप्रधानत्वे तत्पुरुषः प्रसिद्ध एव, अतो यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेष इति विवक्षितमितिभावः । सशेषः प्रथमान्तमिति । ननुक्त. प्रकारेण प्रथमान्तस्य बहुव्रीहिरिति सिद्धम् , तत्कथं, (प्रादयो गताद्यर्थे प्रथमया) इति Aho! Shrutgyanam

Loading...

Page Navigation
1 ... 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262 263 264 265 266 267 268 269 270 271 272 273 274 275 276 277 278 279 280