________________
६४
फक्किकारत्नमञ्जूषा । परम्परया बोध्यः । तत्र जातेरेकत्वेनैकवचनं प्राप्नोतीत्यस्यारम्भः । अत्रैकत्वञ्च बहुवचनार्थः। एकस्मिन्नर्थे वर्तमानः शब्दो बहूनामर्थानां वचनं बोधको भवतीत्यर्थादर्थातिदेशोऽयमित्याह-एकोऽप्यर्थो बहुव भवतीत्यादि । तदुक्तम्भाष्ये (यावद्यादेकोऽर्थो बहुबद्भवतीति तावदेकस्मिन्बहुवचनमिती) ति । एकत्वेऽर्थे बहुत्वप्रयुक्तस्य कार्यस्यातिदेशात्कार्यातिदेश एवेति बोध्यम् । जातौ संख्यान्वये एकवचनस्य व्यक्तौ संख्याऽन्वये बहुवचनस्य सिद्धत्वादनावश्यकत्वेन भाष्ये प्रत्याख्यातमेतत्सूत्रम् । एवञ्च यथोत्तरं मुनोनां प्रामाण्यात्सूत्रोक्तार्थेऽसाधुत्वमेव प्रयोगाणामिति बोध्यम् ।
सविशेषणस्य प्रतिषेध इति । मुख्याथें बहुवचननिषेधार्थमिदं वार्तिकम् । यदा तु अस्मच्छब्दस्य स्वघटिते उद्भूताऽवयभेदे समुदाये लक्षणा तदा बहुवचनं भवत्येव, तेन त्वं राजा वयमप्युपासितगुरुप्रज्ञाभिमानोन्नताः ।
इत्यादि सिद्धम् । गार्योऽहं ब्रवीमीत्यादावयं निषेधः । उत्तमपुरुषाऽनुरोधेनाऽत्राह. मित्यस्य स्वविशेष्यत्वादित्यलम् ॥
ननु 'सभाराजाऽमनुष्यपूर्वे' त्यत्र सभेत्येको योगः, राजाऽमनुष्यपूर्वेत्यपरो योगः, तत्र सभान्तस्तत्पुरुषो नपुंसकं स्यादित्यर्थकेन सभेतियोगेनैव स्त्रीसममित्यत्र नपुंसकत्वे सिद्धे 'अशाले ति सूत्रं व्यर्थमित्यभिप्रायेणाशइते-पाशाला किमिति । समाधत्ते-ध. मसभेति । धर्मशालेत्यर्थः । अयमभिप्रायः, इनसभम् , ईश्वरसभमित्यत्रापि पूर्वयोगेनैव नपुंसकत्वोपपत्तौ व्यर्थः सन्नुत्तरयोगो ज्ञापयति स्त्रीत्वेतरलिङ्गविशिष्टप्राणिवाचकपूर्वपदक. स्य सभान्तस्य तत्पुरुषस्य नपुंसकत्वञ्चेतहि राजाऽमनुष्यपूर्वपदकस्यैव स्यादेवञ्च स्त्रीत्वेतरलिङ्गविशिष्टप्राणिवाचकपूर्वपदकेतरत्वेन पूर्वयोगे संकोचे कृते स्त्रीत्वेतरलिङ्गविशष्टप्राणिवाचकपूर्वपदकेतरत्वाऽभावेन इनसभमीश्वरसभमित्यत्र नपुंसकत्वार्थमुत्तरयोगस्यावश्यकत्वेन स्त्रीसभमीत्यत्रेव धर्मसभेत्यत्रापि नपुंसकत्वापत्तिरिति तदर्थमशालेति सूत्रमावश्यकमे. वेति दिक् ॥
इति तत्पुरुषः ॥
अथ बहुव्रीहिसमासप्रकरणम् । शेषो बहुब्रीहिः । असर्वोपयोगार्थकाच्छिषेः कर्मणि घना निष्पन्नस्य सूत्रघटकशेष. पदस्योपयुक्तादन्यपरत्वेन यस्य पदस्याऽर्थस्य वा पूर्वनोपयोगस्तस्य पूर्वमप्रसिद्धिमभिधाय भाष्यकृता सिद्धान्तितं त्रिकतः शेष एत्येतन्मूलकव्याख्यानात् शेष इत्यस्य प्रथमान्तत्वारः । तेन प्रथमान्ताऽपेक्षशेषस्यैव ग्रहणमिति बोध्यम् । पदतः शेषस्य ग्रहणे सामन्यतो विशेषतो वा यस्य पदस्योपयोगस्तदन्याऽप्रसिद्धिः, 'सुप्सुपे' त्यत्र समान्यतः, द्वितीयाश्रिते, त्यादौ विशेषत उपयोगः । अर्थोऽपि, पूर्वपदार्थप्रधानत्वेऽन्यपदार्थप्रधानत्वे चा. ऽव्ययीभावः । उत्तरपदार्थप्रधानत्वे तत्पुरुषः प्रसिद्ध एव, अतो यस्य त्रिकस्य विशिष्य समासो नोक्तः स शेष इति विवक्षितमितिभावः । सशेषः प्रथमान्तमिति । ननुक्त. प्रकारेण प्रथमान्तस्य बहुव्रीहिरिति सिद्धम् , तत्कथं, (प्रादयो गताद्यर्थे प्रथमया) इति
Aho! Shrutgyanam