________________
तत्पुरुषसमासप्रकरणम् ।
स्त्रियामदन्तत्वाद्दाविति । ननु ' रात्राऽन्हाहा: पुसि' इत्यनेन रात्रिशब्दान्ताऽहन्दशब्दान्ततत्पुरुषयोः पुंस्त्वविधानात्प्रकृतेऽहन् शब्दान्ततत्पुरुषस्य पुंस्त्वबो नात्रीत्वस्य दुर्लभतया स्त्रियामित्याद्युक्तिर्न सम्यगिति चेन्न । सर्वमहः सर्वाह इत्यत्र पुंस्त्वविधानेन सफलस्योक्तवचनस्य लुप्ततद्वितेऽप्रवृत्तेः । न च प्रमाणाभावात्कथमिह तदप्रवृत्तिरिति वाच्यम् । 'लुपि युक्तवद्वचनमि' त्यस्यैव तत्र प्रमाणत्वात् । तथाहि, लुप्तप्रत्ययेsपि प्राकृत लिङ्गाऽनुशासनप्रवृत्यभ्युपगमे स्पष्टमेव तद्वैयथ्यं स्यात् । लुप्तप्रत्यये प्राकृतलिङ्गाऽनुशासनाऽप्रवृत्तेरेव लवणः सूपः, लत्रणा यदागुरित्यादौ क्लीबल्वं न । नच द्वयोरोति विग्रहे 'कालाट्ठजि' त्यनेन विहितस्य जो 'द्विगोर्लुगनपत्ये' इत्यनेन लुकि 'राजाहः सखिभ्य' इति टचि टिलोपेऽह्णादेशे च निष्पन्नस्य द्वयह्नशब्दस्य ठजन्तत्वेन 'टिढाजि' तिङीपो दुर्वा तया टाबित्युक्तिर्न समीचीनेति वाच्यम् । अनुपसर्जनोभूतस्य artisarरस्तदन्तप्रातिपदिकान्डी विधायक सूत्रार्थे वर्णाश्रयत्वेन (वर्णाश्रये नास्तिप्रत्ययलक्षणमि) ति निषेधात्प्रत्ययलक्षणाऽप्रवृत्या ठजोऽसखेन ङीपोऽप्रवृत्तेः । नचैवं परिहारेsपि प्रत्ययस्य टिवान्ङीप् स्यादेवेति वाच्यम् । टवः समासान्तत्वात्तद्धितार्थम्प्रति तस्योपसर्जनत्वेन तदप्रवृत्तेः, अत एव आपिशलिना प्रोक्तमधीयाना ब्राह्मगी आपिशलेत्युदाहृतम्भाष्ये, नच ( संख्या पूर्वी द्विगुरि) त्यनेन द्विगुसमासे (डिगोरि ) त्यनेन ङोप दुर्वार एवेति वाच्यम् । उक्तडीब्विधायकस्य 'अपरिमाणबिस्ताऽचिते' ति निषेधेन तदप्रवृत्तेः । अतोऽत्र टाप एव युक्तत्वात्तथैवोदाहृतमित्यलं पल्लवितेन |
दीर्घाही प्रावृडिति । दीर्घानि अहानि यस्यामिति विग्रहे 'अहोऽन्ह एतेभ्यः इत्यनेनाsन्हादेशे (क्षुम्नादिषु चे ) ति णत्वनिषेवे रूपं सिद्धयति ।
६३
यत्तु प्राचा । उक्तप्रयोगे णत्वाभावोऽदन्ताहादेशाभ्युपगमेनोपदितः स तदायासो मुचैव प्रातिपदिकान्तनुम्विभक्तिषु चे' त्यनेन प्राप्तणत्वव्यावृत्यर्थं तस्य क्षुम्नादिगणे पाठस्यावश्यकत्वेन तदुपपत्तेरिति भावः ॥
ननु (लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्यैव ग्रहणमि ) ति परिभाषया 'सन्महत्परमो - तमोत्कृष्टाः पूज्यमानैः' इत्येतत्सूत्रविहितप्रतिपदोक्तसमासस्यैवाऽत्र ग्रहणं स्यात्तथा ร तत्र यदुत्तरपदं तस्मिन्नेव परे आत्वविधानं नान्यस्मिन्निति व्यर्थं समानाधिकारग्रहणमिति चेन्न । तस्य सामर्थ्यादुक्तपरिभाषाऽप्रवृत्तिकल्पनेन साफल्यात् । एवञ्च महाबाहुरित्यत्र ना sscarsनुपपत्तिः । उक्तप्रयोगे महान्तौ बाहू यस्येति बहुव्रीहिः ॥
ननु आन्महत इत्यनेन महच्छब्दस्यात्वविधानादुत्तरसूत्रे द्व्यष्टनोरेव ग्रहणाच्च सर्वथाऽप्राप्त्या एकादशेत्यत्राऽऽत्वं न स्यादत आह- श्रादिति योगविभागादात्वमिति । योगविभागस्य भाष्याऽनारूढत्वमित्यत आह- प्रागेकादशभ्य इति निर्देशाद्वेति ।
ननु अर्द्धनावमित्याद्यर्थं लोकाश्रयत्वाल्लिङ्गस्येत्यस्यावश्यकत्वादनेनैव लिङ्गोपपत्तौ लिङ्गविधायक प्रकरणमनावश्यकमिति चेत्सत्यम् । जात्याख्यायामित्यादिसूत्रसमूह वदिष्टापत्तेरिति ध्वनयन्प्रकृताऽनुपयुक्तान्यपि तानि व्याचष्टे जात्याख्यायामित्यादि । जातेः प्राधान्येनाssख्यायामित्यर्थः । भावप्रत्ययमन्तरा प्राधान्येन जातिबोधे गवादिशब्दानां साधुत्वे इदमेव सूत्रं मानमिति बोध्यम् । तस्याऽविशेष्यत्वे बाह्यार्थाऽन्वयो व्यक्तिवटित
Aho! Shrutgyanam