________________
६२
फक्किकारलमञ्जूषा |
इति । उक्तयुक्त्या गत्युपपदयोर्लाभः कारकांशस्य तु 'कर्तृकरणे कृता बहुलमिति सूत्रस्थबहुलग्रहणाल्लाभः ।
परिभाषाफलं प्रदर्शयन् गतिमुदाहरति - व्याघ्रीति । अत्र व्याङो प्रशब्देन गतिसमासः । अस्य समासस्य सुबन्तस्याऽपेक्षणे तु सुनुत्पत्यथं संख्याऽपेक्षणात्ततः पूर्वमेव लिङ्गयोगात्तन्निमित्तकप्रत्ययष्टावेव स्यान्नडीप् । अविभक्त्यन्तस्य शब्दमात्रस्य जातिवाचकत्वाऽभावेन च ङीप् न स्यादिति भावः । नच परिभाषाघटकांशत्रयस्य मध्ये गत्यंशोदारणस्योपपदत्वेन सिद्धत्वाद्वयर्थ एव स इति वाच्यम् । आङ उपपदत्वेन तस्य घ्रश. ब्देन समासेऽपि पश्चाद्विशब्देन समासार्थ गत्यंशस्याऽवश्यकत्वात् । आङः 'घ्रः संज्ञायामित्यनेनाङपूर्व कात घ्राधातोः कप्रत्ययविधानादाङ उपपदत्वं न विशब्दस्येति भावः ।
कारकमुदाहरति- अश्व क्रीतीति । अत्राश्वेन क्रीतेति विग्रहे 'कर्तृकरणे कृता बहुलमित्यनेन समासः । ' क्रीतात्करणपूर्वादिति ङीप् । सुबन्तेन सति समासे पूर्वोक्तयुक्त्या टाप्यदन्तत्वाभावान्नासाविति भावः । उपपदमुदाहरति - कच्छपीति । कच्छेन बिपतीति विग्रहे 'सुपीति योगविभागात्कः । अत्राऽपि सुबन्तेन समासे व्याघ्रीत्यत्रेव ङीष् न स्यादिति भावः । कच्छेन साधनेन पिबतीत्यर्थे कच्छस्य कारकत्वादस्यैवोदाहरणमिदं नोपपदस्य तथा च माषवापिणीत्यस्योदाहरणम् । अन माषोपपदाद्वपधातोः 'सुप्यजाताविति णिनिः । ततो माषोपपदस्य कृदन्तेन समासे 'प्रातिपदिकान्तनुविभक्तिg चे 'ति सूत्रेण पूर्वपदस्थनिमित्तात्परस्य समासप्रातिपदिकान्तनकारस्य णत्वसिद्धि:, सुबन्तेन समासे तु अन्तरं गत्वान्नान्तलक्षणडीपो दुर्वारतया ततो वापिनीशब्देन समासे गर्ग भगिनीत्यत्रेव णत्वानापत्तिरित्येके । कच्छेत्यस्य कारकत्वाऽभावाद्युक्तमेवोदाहरणमुपपदस्येत्यन्ये इति दिक् ॥
श्रष्टखोरेव । द्र्यहीन इति । द्वे अहनी मृतः क्रतुरिति विग्रहे 'तद्धितार्थोत्तरपदसमाहारे चे’त्यनेन तद्धितार्थं द्विगौ तमधीष्ट इत्यधिकारे द्विगोर्वेत्यनुवर्त्तने 'रात्र्यहः सम्वत्सराच्चेत्यनेन खे तस्मिन् 'अक्षष्टखोरेवेत्यनेन टिलोपे खस्येनादेशे चोक्तरूपसिद्धिः । ननु खस्य टिलोपमात्र फलकत्वाऽभ्युपगमे तत्र तद्धितार्थे द्विगौ विहितेन टचैव टिलोपसद्वौ ग्रहणं व्यर्थमिति चेन्न । समासान्तविधेरनित्यत्वेन टचोऽप्रवृत्त्या खग्रहणस्य सार्थक्यात् । समासान्तविधेरनित्यत्वादेव द्विगोर्वेत्यनुवर्त्तमाने रात्र्यहः सम्वत्सराच्चेत्यस्य चारितार्थ्यम् । नच 'अह्नष्टखो:' इत्यनेन खे परे टिलोपविधानसामर्थ्यादेव समासान्तविवेष्टचोऽप्रवृत्तौ तस्याऽनित्यत्वपर्यन्तानुधावनं खपुष्पग्रहणवन्निष्फलमिति वाच्यम् । अहीन इत्यत्र खे टिलोपविधानेन अह्नष्टखोरित्यस्य सार्थक्यात्सामर्थ्याऽभावेन समासान्ताऽभावाऽसाधकत्वेनोक्तविधेरनित्यत्वमन्तरा टचो दुर्वारतयोक्तविधेरनित्वपर्यन्ताऽनुधावनस्य साफल्यात् । नच टचि को दोष इति वाच्यम् । 'अहोऽह्न एतेभ्यः' इत्यनेन द्वयहीन इत्यस्याऽङ्कादेशेनाऽसिद्धयापत्तेः । नच प्रमाणाऽभावात्समासान्तविधेरनित्यत्वं न स्यादिति वाच्यम् । अश्वादिगणे राजञ्छब्दपाठस्यैव तत्र प्रमाणत्वात् । तथाहि, प्रतेरंश्वादयस्तत्पुरुषे' इत्यनेनाऽन्तोदात्तार्थमश्वादिगणे राजञ्छब्दपाठः सचायं समासान्तविधेरनित्यत्वे सत्येव सफलः, अन्यथा टचैवान्तोदात्तत्वसिद्धौ तदर्थं कृतस्याश्वादिगणे राजञ्छब्दपाटस्य वैयर्थ्यापुज्ञेरित्यलम् ।
Aho! Shrutgyanam