________________
तत्पुरुषसमासप्रकरणम् ।
६१
ज्ञालोपयोर्बाधाऽबाधयोः फले विशेषाऽभावे नोक्तन्यायाऽऽप्रवृत्तेः । अत्र 'कर्तृकर्म गोः कृति' इत्यनेन कृद्योगलक्षणा पष्ठी । नवाऽन्तरङ्ग परिभाषया द्वितीयाया दुर्वास्त्वात्कथं षष्ठीति वाच्यम् ।
(प्रकल्प्य चापवादविषयं तत उत्सर्गः प्रवर्तते) इति न्यायेन षष्ट्या एव प्राप्तः । नचोक्तसूत्रेण षष्ठीविधानात्षष्ठीसमासस्यैव सुलभत्वेन तं विहायोपपइसमासः कथमिति वा. व्यम् । विभक्तयुत्पत्तेः पूर्वमेवाऽन्तरङ्गत्वादुत्तरपदे उपपदसमासप्रवृत्तः । नच कृद्योगलक्षगषष्ठयाः कारकषष्टोत्वेनाऽन्तरंगत्यात्षष्ठीसमासस्याऽपि विभक्तयुत्पत्तः पूर्व प्रवृत्तो कुतो नाऽयमेव समास इति वाच्यम् । सत्येवमस्य समासस्यैवेष्टत्वात् । नव पष्टीसमासस्थ नित्यत्वादेतत्कृतस्य तत्पुरुषसंज्ञाप्रयुक्तैकार्थीभावरूपसामर्थ्यस्याऽनपगमेनोक्तसमासप्रवृतेः। एकस्या एव संज्ञाया उभाभ्यामपि प्रवृत्त्याऽविरोधेन युगपदेवोभाभ्यां सेति भाष्ये स्पष्टमत्र सूत्रे । (१)एवञ्च 'द्वितीयाश्रिते'त्यादिसूत्रविहितसमासोऽप्युत्तरपदे सुत्रुत्पत्तेः प्रागेवेति बोध्यम् । (२)अत एव परिभाषायां कारकेतिसामान्यत एवोक्तम् । भाष्यकृता च न कारकांशे प्रमाणमुपन्यस्तम् । नच प्रकृतसूत्रस्थभाष्यात्परिभाषा न कर्तव्येत्यवगमेन परिभापाघटककारकांशे नोपन्यस्तं भाष्यकृता प्रमाणमित्युक्तिर्न संगतिमाप्नोतीति वाच्यम् । प्रकृतसुत्रस्थभाष्यस्य विशिष्टायाः परिभाषाया अकर्तव्यपरत्वेनादोषात् । उक्तभाष्यस्यै. तत्परत्वादेव परिभाषाप्रत्याख्यानोत्तरमपि गतिकारकेति समासवनादित्युक्तम् । तेन कारकांशो वाचनिक इति लभ्यत इति ॥
ननु सूत्रेऽतिपदसत्त्वात्तिङन्तस्य समासाऽभावबोधनं तत्सुपाऽधिकारेणैव सिद्ववेदुयर्थतद्ग्रहणमित्याशयेनाशङते-अतिङकिमिति । समाधत्ते-माभवान् भूदिति । कारको व्रजतीत्यादिभाष्योक्तस्याऽप्युपलक्षणमिदमिति बोध्यम् । अत्र समासाऽभावं सूचयितुमेव मध्ये भवानिति प्रयुक्तम् । अयम्भावः, अतिङ्ग्रहणाऽसत्त्वे तिङन्तेन समा. सापत्तिः, 'माडिलुङिति सप्तमीनिर्देशेन माङ उपपदत्वात् । नच सुपाधिकारस्य प्रागेवोक्तत्वात्सुबन्तस्यैव समासेन तिङन्तस्य समासाऽभावाद्वयर्थमेव तदिति वाच्यम् । तस्य वक्ष्यमाणपरिभाषाज्ञापनेन साफल्यात् । तथाहि, माङ उपपदत्वे तादृशमहासंज्ञाकाणबलात् कतुं देवदत्तो घटं ग्रामं व्रजतीति प्रयोगवत् 'ऐौच तद्धिता|ति सुत्रद्वयस्थभा. प्याद्वित्रिपदव्यवधाने प्रयोगाऽभावबोधनेन माङि लुङिति सप्तम्याः प्रथमार्थत्वाऽभावात्तस्योपपदत्वे मानाऽभावेव तस्योपपदत्वे फलाऽभावेन चोक्तप्रत्युदाहरणभूतोक्तप्रयोगे समासापत्यभावाद्वयावाऽभावेन व्यर्थमतिङ्ग्रहणं ज्ञापयति नात्र सूत्रे सुपेत्यस्यानुवृत्तिः 'कुगति प्रादयः' इत्यत्रापि न तदनुवृत्तिः । तत्र 'कुप्रादयः' 'गतिः' इति योगं विभज्य कुप्रादयः सुबन्ताः सुबन्तेन, समस्यन्ते, गतिश्च सुबन्तोऽतिङन्तेन समयत इत्यर्थः । तथा च सिद्धषा परिभाषा ( गतिकारकोपपदानां कृभिः सह समासवचनं प्राकसुबुत्पत्तेः)
(१) गतिकारकेति परिभाषायां कारकशब्दमात्रस्योपादानात्कारकविभक्त्यन्तस्य क. द्भिः समासविधायकशास्त्राणां कृदन्तात्सुबुत्पत्तेः प्राक् प्रवृत्तिरित्यस्य सिद्धौ चेत्यर्थः ।
(२) परिभाषायाः कारकसामान्यविषयत्त्वादेवेत्यर्थः । ६ फ० म०
Aho ! Shrutgyanam