________________
फक्किकारत्नमञ्जूषा। प्रत्ययो भवतीत्यर्थो भवति तथैव 'कर्मण्यणि' त्यादौ कर्मण्यभिधेयेऽण् प्रत्यय इत्यर्थे कर्तर्यणप्रत्ययाऽनापत्तिः । किञ्च सप्तम्यन्तनिर्देशस्योपपदसंज्ञार्थत्वेन चारितार्थ्यात्केवलादपि धातोः कर्तर्यणप्रत्ययसम्भवः । कृते तु तस्मिन कुम्भायुपपदस्य प्रत्ययोत्पत्तिहेतुभूतत्वेन केवलादुक्तप्रत्ययापत्तिशंकाकलंकोदयावसरो नैवास्तीति । अनेन च सूत्रेण प्रत्ययविशेषस्य पदसंज्ञासन्नियोगशिष्टत्वं बोधयति । यस्य प्रत्ययविधायकशास्त्रस्य सप्तम्यन्तपदैकवाक्यता वा भवति तेन शास्त्रेण प्रत्ययविशेषस्य सप्तम्यन्तपदस्योपपदसंज्ञायाश्च युगपद्विधानम्भवति यस्य तु प्रत्ययविधायकशास्त्रस्य नोक्तरूपत्वं तस्य केवलप्रत्ययमात्रविधा. यकत्वमेव । यथा तव्यत्तव्यानीयर इत्यादिशास्त्राणां केवलप्रत्ययविधायकत्वमेवेति तदा. शयः । प्रत्ययविधेरुपपदसंज्ञासन्नियोगशिष्टत्वाऽनंगीकारे त्वन्वाचयशिष्टत्वापत्तिः । अय. म्भावः, कर्मण्यणित्यादौ यस्मिन्प्रयोगे कर्मणो विधीयमानाऽणप्रत्ययप्रकृत्यर्थाऽन्वयित्वन्तत्रप्रयोगे कर्मण उपपदसंज्ञाऽपि भवति ।।धातोरणप्रत्ययस्तूपपदाऽभावेऽपि भवतीति सम्भाव्येत् । नच सूत्रे कर्मणीति सप्तम्यन्तपदसत्त्वात्कथन्तदभावे प्रत्ययसम्भव इति वाच्यम् । कर्मणीतिसप्तम्यन्तपदोच्चारणस्य यत्र तादृशस्य समीपोच्चारितत्वन्तत्रोपपदसंज्ञा. विधायकत्वेन चारितार्थ्यात् । अत्र सूत्रस्य प्रथमार्थसप्तम्यामेव प्रवृत्त्या 'भुवो भावे' इत्यादौ भावेऽर्थे भुवः क्यबित्यर्थाद्भावे इति अधिकरणसप्तम्यां न प्रवृत्तिरिति बोध्यम् । 'उ. पदेशेऽजनुनासिक इदि, ति सूत्रे प्रवृत्युपयोग्यानुनासिकत्वव(१)ल्लक्ष्यानुरोधेनैव काचित्सप्तमी प्रथमार्थे काचित्स्वार्थाऽधिकरण एवेति व्यवस्थाऽनुमेयेत्यलं पल्लवितेन ॥
उपपदमति’-सूत्रे सुबन्तस्याऽसत्वादुपपदेतिमहासंज्ञाबलात्तल्लाभस्तथा च उपप. दस्य सुबन्तस्य समथेन नित्यं समास इत्यर्थः । सुबन्तस्योपपदसंज्ञास्वीकारादेव 'राजनि युधि कृञः' इत्यत्र राजनीति सप्तम्याः प्रथमार्थत्वकल्पनात्सुबन्तस्यैव क्वनिप्प्रत्यविधानसमकालिकोपपदसंज्ञास्वीकारेण राजानं योधितवतीति राजयुध्वेत्यादौ नलोपो जातः ।
सूत्रेऽतिङितिपदे न तिङ् यस्मिन्निति बहुव्रीहिणा तिङन्ताघटित उपपदसमास इत्यर्थे ण्वुविधायकसूत्रस्थायाः क्रियार्थायां क्रियायामिति सप्तम्याः प्रथमार्थत्वेन एधानाहरको व्रजतीत्यत्र बजतीत्यस्य विभक्त्यन्तस्योपपदत्वेऽपि तिङन्तत्वान्न समासः । ___नच तस्योपपदसंज्ञा विधाने किम्फलमिति वाच्यम् । तदुच्चारण एव प्रत्ययोत्पत्तरेव फलत्वात् । एवञ्च तिङन्तस्य नोपपदसमास इति फलितमित्याह-अतिङन्तश्चायं स. मास इति-कथमपि तिङान्ताघटितः समाससंज्ञकः समुदाय इत्यर्थः । कुम्भ अस् कार इत्यलौकिकं प्रक्रियावाक्यमिति । समासप्रवृत्तियोग्यं लोके प्रयोगाहमित्यर्थः । नन अत्तरङ्गानपि विधीन्बहिरङ्गो लुग्बाधते] इतिन्यायबलेन 'सुपोधातुप्रातिपदिकयोरि' त्येतत्सूत्रविहितलुका 'लशक्वतद्धिते 'तस्य लोपः' इति सूत्रद्वयविहितयोः डकारस्येत्संज्ञालोपयोर्बाधेन कुम्भ ङ्स् इत्येवं प्रदर्शनस्य युक्तत्वादुक्तवाक्यप्रदर्शनं न युक्तमिति चेन्न । इत्सं
(१) लक्ष्याऽनुरोधेनैवेति । ब्रह्मभूयमित्येतच्छब्दजन्यशाब्दबोधे धात्वर्थभवनस्यैव विशष्यत्वेन भानस्याऽनुभवसिद्धत्वाद्भाव इति सप्तम्या न प्रथमार्थत्वम् । भव्यम्प्रभव्यमित्यादौ क्यपोऽदर्शनात् 'अनुपसर्गे सुपि' इत्यनयोस्तु प्रथमार्थत्वमेवेतिकल्पनवल्लक्ष्यानुरोधेन कल्पनीयमिति भावः ॥
Aho ! Shrutgyanam