________________
तत्पुरुषसमासप्रकरणम् ।
रत्वम् , तत्स्थं तदूवाच्यमित्याह-सप्तम्यन्ते पदे कर्मणीत्यादौ वाच्यत्वेन स्थि. तमित्यादि । उपपदमितिमहासंज्ञया तत्रेत्यत्र प्रथमाथे सप्तमीबलेन च लब्धार्थमाहतद्वाचकं पदमिति-अत्र पदमित्यनेन विभक्त्यन्तस्य ग्रहणे स्तम्बरमः, कणेजपः, इत्यत्र स्तम्बकर्णयोरुपपदत्वाऽनुपपत्तिस्तयोरविभक्त्यन्तत्वादिति वाच्यम् । 'स्तम्ब कर्णयो रमिजपोरित्यत्र सुपीत्यधिकारेण स्तम्बकर्णयोस्स्वप्रकृतिकसुबन्ते लक्षणया तयोविभक्त्यन्तत्वेन तत्त्वोपपत्तेः । तत्र लक्षणाया अनङ्गीकारे उपपदमिति महासंज्ञया लब्ध. म्योपपदसंज्ञकसुबन्तस्यासत्वात् स्तम्बेरमः, कणेजप इत्यत्र समासानापत्तिः । सूत्रे स्तम्बकर्णयोरिति सप्तम्याः प्रथमार्थत्वादमिजपोरनन्तरमच प्रत्ययो भवति स्तम्बकर्णी चोपपदसंज्ञको भवत इत्यर्थापत्या यच्च सुबन्तं न तत्सप्तम्यन्तपदस्थं यच्च सप्तम्यन्तपदस्थं न तत्सुबन्तमिति सूत्रार्थाऽनुपपत्त्या समासाऽनापत्तिरित्यर्थः । ननु स्तम्बेरमः, कर्णेजप इत्यत्र सूत्रे स्तम्बकर्णयोरुपादानसामर्थ्यात्तयोः सुबन्तत्वाऽभावेऽपि उपपदसंज्ञायाः सुलभ. त्वात्संज्ञायाः सुलभत्वात्समासोपपत्तौ तत्र तदनुपपत्तिप्रदर्शनं न युक्तियुक्तमिति चेन्न । उक्तयुक्तयोक्तस्थलीयसमासाऽऽपत्तिपरिहारेऽपि समाससंज्ञाविधायकशास्त्रे 'उपपदमतिङि' ति सूत्र प्रथमान्तसुबन्तसुप्ग्रहणस्याऽनुवर्त्तनात्प्रथमान्तस्यैवोपपदसंज्ञकसुबन्तस्योक्तसूत्रेण समासविधानेन 'सुप्यजातावि' ति णिन्यन्ते राज्ञः दर्शीत्यादौ समासाऽनापत्तेर्दुरित्वात् । तत्र प्रथमान्तं सुबन्तमेवोपपदं समस्यते इत्यर्थस्तु सुपीतिसप्तम्याः प्रथमार्थत्वाबोध्यः । तथा च राजानं पश्यति तच्छीलेतिविग्रहपरोक्तप्रयोगे दुर्वारमेवोक्तदूषणमिति । नचोपएदमतिङिति सूत्रस्याऽऽवृत्याऽर्थद्वयकरणात्प्रथमान्तसुबन्तोपपदस्याऽन्यविभक्त्यन्तसुबन्तो. पपदस्य च समासे न कुत्राऽऽप्यापत्तिरिति वाच्यम् । गौरवादर्थद्वयकरणस्य कमिश. क्यत्वात् । उपपदमिति महासंज्ञाविरोधाच्च । स्तम्बकर्णेति प्रातिपदिकयोः पदत्वाऽभावेन तयोरुक्तसंज्ञाऽङ्गीकारे स्पष्ट एव महासंज्ञाविरोध इति भावः । एतेन पदस्यैवोपपदसंज्ञा भवतीत्यर्थादायातमिति ज्ञेयम् । 'सुप्यजातौ णिनिस्ताच्छील्ये' 'मुपिस्थः' इत्येतत्प्रभृतिविषये सप्तम्यन्तपदवाच्यत्वरूपतत्स्थत्वमादाय सुप्यजातावित्यादावुक्तरीत्योपपदत्वोपपादनेऽपि विभाषाग्रे प्रथमे' त्यादौ सुपीत्यस्याऽनधिकारादग्रेशब्दादीनां कथमुपपदत्वमिति वाच्यम् । उक्तस्थले तदनधिकारेऽपि महासंज्ञाबलेनाऽग्रादिशब्दानां तत्प्रकृतिकसुबन्ते ल. क्षणया तत्त्वोपपत्तेः ॥ __ महासंज्ञाकरणसामथ्र्येन विभक्त्यन्तस्यैवोपपदसंज्ञास्वीकारादेव, अतिङ्ग्रहणादेतद्योगद्वये सुपसुपेति निवृत्तमित्युक्तमुपपदमतिङिति सूत्रे भाष्ये । उप समीपे उच्चरितं पदमुपपदम् । सामीप्यञ्च सप्तम्यन्तपदघटितसूत्रविधेयप्रत्ययप्रकृत्यर्थेऽन्वयित्वमेव नत्वाऽनुपूज्यव्यवधानम् । 'कर्मण्यम्' इति सूत्रे उष्टप्रणायमितिभाष्योदाहरणात् । 'आतोऽनुपसर्गेकः' इत्यत्राऽनुपसर्गग्रहणाच्च । नच आनुपूर्व्यव्यवधानरूपसामीप्यस्याऽनाऽऽश्रयणे गुरुं नमस्कारोतीत्यादावण दुर्वार इति वाच्यम् । भवन्तं शृगोतीत्यादाविवोक्तस्थलेऽनभिधानादणोऽप्रवृत्तेः । नन्वेतत्सूत्रस्याऽधिकारसूत्रत्वेऽत्र 'तत्र ग्रहणं व्यर्थमधिकारेणैव प्रकृ. तधात्वधिकारविषयतायाः सिद्धत्वादित्यत आह-तस्मिश्च सत्येवेति-उपपदे सत्येवेत्यर्थः । अयम्भावः, तत्रग्रहगाऽभावे 'धः कर्मणि टन्' इत्यादौ यथा कर्मण्यभिधेये धन
Aho ! Shrutgyanam