________________
फक्किकारत्नमञ्जूषा । दि' त्यनेन लिङ्गदोषपरिहारसम्भवात्तदापत्तिप्रदर्शनमयुक्तमिति वाच्यम् । उक्तयुक्त्या लिङ्गदोषे परिहतेऽपि वचनदोषापत्तेस्तादवस्थ्यात् ।
नञ्तत्पुरुषस्याऽन्यपदार्थप्रधानत्वपक्षेऽवर्षा हेमन्त इत्यादौ वचनदोषस्य दुर्वारत्वात्त. यावृत्त्यर्थन्नञ्तत्पुरुषस्य पूर्वपदार्थप्रधानत्वमेवास्तु । अत्रापि पक्षेऽस इत्यादौ पूर्ववत्सवनामकार्योपपत्तिः । न चाऽवर्षा हेमन्त इत्यत्र पूर्वपदस्य नमोऽव्ययत्वात्तदर्थप्रधानस्य नन्तत्पुरुषस्य लिङ्गसंख्याभ्यां योगाऽभावात्तस्य पूर्वपदार्थप्रधानत्वाऽभ्युपगमेन कथन्तत्रत्यदोषपरिहार इति वाच्यम् । शब्दशक्तिस्वभावाद्वाक्ये नमोऽसत्वभूतार्थाऽभिधायित्वे. ऽपि समासे सत्त्वभूतार्थाऽभिधायित्वेन लिङ्गसंख्यान्वयसम्भवात् । यद्वा गुणवाचकशब्दानामाश्रयगतलिङ्गादिवत्समासार्थप्रतियोगित्वेन यद्रव्यं श्रितस्तव्यस्थलिङ्गादि समासस्य भविष्यति ।
अभावरूपसमासार्थस्य प्रतियोगित्वेन वर्षारूपद्रव्याश्रयणादेतद्गतलिङ्गादि समासस्य सुलभमेवेतिभावः । समासार्थेनाऽभावेन प्रतियोगिनोऽपि स्वज्ञानायाऽऽश्रयणादभावस्याऽपि प्रतियोग्याश्रयतया नोक्तदोषाऽवकाशः । नघटितसमासघटकेन वर्षाशब्देनाऽभावत्योपस्थित्या वर्षाशब्दरूपाश्रयस्यैव ग्रहणमुचितम् । प्रतियोगिन आश्रयत्वाकल्पने अवपो हेमन्त इत्यादौ विशेष्यभूतहेमन्तगतलिङ्गवचनापत्तिदोषदूषितादन्यपदार्थप्रधानो नज. तत्पुरुष इतिपक्षादगीकृतेऽपि पूर्वपदार्थप्रधानत्वपक्षे विशेष्यगतलिङ्गवचनाऽऽपत्तिरूपदो. पस्यातदवस्थत्वेन अस्तु तर्हि पूर्वपदार्थप्रधान इति भाष्याऽसङ्गतिः । पूर्वपदार्थप्रधानत्वपक्षस्य निर्दोषत्वादेतत्समकक्षतया [ अथवा पुनरस्तूत्तरपदार्थ प्रधान] इति भाष्यकृदुक्तेरसंगतिश्च । प्रतियोगिन आश्रयत्वाकल्पयितृरीत्या पूर्वपदार्थप्रधानत्वपक्षे दोषस्य स्थितत्वादस्तु तर्जुत्तरपदार्थप्रधान इति वक्तुमुचितम् । उक्तपक्षद्वयेऽपि अनेकमन्यपदार्थे। इति सूत्रेऽनेकमित्यत्र वक्ष्यमाणैकवचनाऽसिद्धिं मनसि निधाय नञ्तत्पुरुषस्योत्तरपदार्थप्र. बानत्वं सिद्धान्तितम्भाष्यकृता । उत्सर्गतस्तत्पुरुषस्योत्तरपदार्थप्रधानत्वम्भवति । अत्र नञ्तत्पुरुषस्य पूर्वपदार्थप्रधानत्वपक्षेऽस्याऽव्ययीभावाऽपवादत्वेनाव्ययीभावस्य बाधनात , नत्राव्ययीभावाऽभावोऽवश्यं स्वीकर्तव्यः। अन्यथा नन्तत्पुरुषस्य पूर्वपदार्थप्रधानत्वपक्षेऽव्ययीभावापवादत्वं स्यात् । अतोऽत्यन्ताऽभावार्थकस्य ननः क्रियादिप्रतियोगिकाऽभाव. बोधकत्वादुत्तरपदार्थेनाऽनन्वयादसामर्थ्यादमक्षिकमित्यादौ नाऽव्ययीभावः । न संदेह इत्यादौ संदेहस्य गुणरूपत्वान्ननः सन्देहाऽभावबोधकत्वम्भवत्येव, इत्यभिप्रायेण 'प्रसज्यायं क्रियागुणौ ततः प्रतिषेधप्रतीतिरिति भाष्ये उक्तम् । असन्देह इत्यादौ चाऽऽरोपितः संदेह इति भेदेनाऽऽरोपज्ञानात्सन्देहाऽत्यन्ताऽभावप्रतीतिर्भवतीत्याद्याहुरितिदिक् ॥
तत्रोपपदं सप्तमीस्थम्-इदमधिकारसूत्रम् । अस्याऽधिकारत्वादेव, अमैव तुल्यविधानमित्यादि प्राचां व्यवहारोपपत्तिः । येन सूत्रेणाऽमो विधानं तेन यस्योपपदसंज्ञाविधानमिति तदर्थात् । ननु एकम्य सूत्रस्योभयविधायकत्वन्न सम्भवतीति चेन्न। 'कर्मण्यणि त्यादौ कर्मणीत्यादेः सौत्र्याः प्रथमार्थे सप्तम्याः सत्त्वाद्धातोरण भवति, कर्म चोपपदसंज्ञमितितदर्थादेकस्याऽप्युभयविधायकत्वदर्शनात् । अत्र सूत्रे सप्तमीपदस्य तदन्तप.
Aho ! Shrutgyanam