________________
तत्पुरुषसमासप्रकरणम् ।
योगोपपत्तौ न किमपि बाधकामेति भावः । ___ ननु सुत्रे समानाधिकरणाधिकारेण एकार्थबोधकत्वरूपसामानाधिकरण्याऽभावाद्युवजरतीति प्रयोगो न स्यादित्यत आह-युवत्यामेव जरतीधर्मोपलम्भेनेत्यादिबोधकालीनेच्छाजन्यज्ञानस्यारोपरूपत्वाजरतीत्वस्य युवत्यामारोपायुवत्या अपि जरतीसा. मानाधिकरण्येन समासे उक्तप्रयोगोपपत्तिः । जरत्यां तु न युवतीत्वधर्मारोपः, तथा सति युवतीशब्दस्य विशेषणत्वेन विशेषणसमासेऽपि नियमतो युवतीशब्दस्य पूर्वनिपातसिद्धौ पूर्वनिपाताय कृतस्य सूत्रस्य वैयर्थ्यांपत्तेरितिभावः ।
कुमारश्रमणादिभिः-ननु सूत्रे कुमारशब्दस्य पाठात्तस्य श्रमणादिभिः सामानाधिकरण्याऽभावात्कुमारी श्रमणा कुमारश्रमणेति प्रयोगो न स्यादिति चेन्न । लिङ्गविशिष्टपरिभाषया कुमारशब्देन कुमारीशब्दस्य ग्रहणात्तस्य च श्रमणादिशब्देन समानाधिकरणत्वात्समासे उक्तप्रयोगोपपत्तेः । एतदेव कुमारग्रहणमुक्तपरिभाषाज्ञापकमिति बोध्यमित्यलम् । ___ ननु निर्मक्षिकमित्यादावव्ययीभावस्य चारितार्थ्यादविघ्नमित्यत्र विघ्नानामभाव. इति विग्रहे परत्वात्तत्पुरुषः स्यादित्याह-अर्थाऽभावेऽव्ययीभावेन सहायं विकल्पत इति-पूर्वपदार्थप्राधान्येऽव्ययीभावः, उत्तरपदार्थप्राधान्ये तत्पुरुष इत्यादिरीत्येति भावः । न्यायसिधे प्रमाणमप्याह-रक्षोहागमलध्वसन्देहाः प्रयोजनमिति । अद्रुतायामसंहितमिति-असन्देह इत्यस्य सन्देहाऽभावो [ निश्चय ] इत्यर्थः । प्रमागभूतमुपन्यस्तं द्वितीयं वार्तिकं संहितासूत्रस्थमिति बोध्यम् । दूताभिन्नायां मध्याविल. म्बितवृत्तौ संहिताऽभाव इत्यर्थः । अव्ययीभावे कृते, द्वन्द्वे परवल्लिङ्गेनोपपन्नस्य असन्देहा इति पुल्लिङ्गप्रयोगस्याऽनुपपत्तिः । द्वितीये द्रतायामिति स्त्रीलिङ्गप्रयोगाऽनुपपत्तिश्च । उक्तभाष्यवार्तिकप्रयोगेण नञ्तत्पुरुषसमासस्याव्ययीभावेन वैकल्पिकत्वज्ञापनादनुपलब्धिरविवाद इत्यायुपपन्नमितिभावः । न चाऽविद्यमाना विघ्ना यस्मिन्निति बहुव्रीहिणा अविघ्नं कर्मत्याद्युपपत्तावव्ययोभावस्योदाहरणमिदं किमर्थमिति वाच्यम् । उत्तरे कर्मण्यवि. घ्नमस्त्वित्यादेव्ययीभावं विनाऽनुपपत्तेरिति प्राश्वः। __शेखरकृतस्तु-भाष्ये उत्तरपदस्य धर्मपरत्वान्नञ्तत्पुरुषोऽन्यपदार्थप्रधानः, न वि. द्यते ब्राह्मण्यं यस्मिन् सोऽब्राह्मणः इति, । नच बहुव्रीहेरन्यपदार्थप्रधानत्वस्य प्रसिद्धत्वान्नन्तत्पुरुषस्याऽन्यपदार्थप्रधानत्वे बहुव्रीहेवैयर्थ्यमिति वाच्यम् । उत्तरपदस्य धर्मिपरत्वे बहुव्रीहेश्चारितार्थ्यात् । उत्तरपदस्य धर्मिपरत्वे बहुव्रीहिसमासाऽऽश्रयणादेव 'अनेकमन्यपदार्थे' इत्येतत्सूत्रस्थं (नजोऽस्त्यर्थानामुत्तरपदलोपश्चे)ति वार्तिकं सङ्गच्छते । न च बहुबीहेरन्यपदार्थप्रधानत्वेऽस्य इत्यादौ सर्वनामकार्य न स्यादिति वाच्यम् । 'एतत्तदोःमुलोपोऽकोरनजसमासे हलि' इत्येतज्ज्ञापकात्तत्र सर्वनामकार्योपपत्तेः। नोक्तार्थे सम्पूर्णसूत्रस्य ज्ञापकत्वं किन्तु तदेकभूतस्याऽनसमास इत्यस्यैव तत्त्वमिति बोध्यम्, तथाहि यदि अस इत्यादौ सर्वनामकाय्यं न स्यात्तदा 'हल्याब्भ्य' इत्यनेन सुलोपस्य दुर्वारत्वादन समासग्रहणं व्यर्थमेव स्यादिति भावः । तत्र भाष्ये नञ्तत्पुरुषस्यान्यपदार्थप्रधानत्वपक्षे अवर्या हेमन्त इत्यादौ विशेष्यतल्लिङ्गवचनापत्तिर्दोष उक्तः । न च 'लङ्गमशिष्यं लोकाश्रयत्वा
Aho! Shrutgyanam