________________
८८
फक्किकारत्नमञ्जूषा । एब ( परवलिंङ्ग द्वन्द्वतत्पुरुषयोरि)ति सूत्रे (द्वन्द्वैकदेशिनोरि)तिन्यासं कृत्वा तत्पुरुषग्रहणं प्रत्याख्यातं भाष्ये । अन्यथा ।
भाष्याब्धिः क्वातिगम्भीरः क्वाहं मन्दमतिस्ततः ।
छात्राणामुपहास्यत्वं यास्यामि पिशुनात्मनाम् । इति कैयटश्लोके भाष्याब्धिरित्यत्र दृश्यमानपरवल्लिङ्गसिद्धयर्थं तत्पुरुषग्रहणस्यावश्यकत्वात्प्रत्याख्यानासङ्गतिः । उक्तप्रयोगे सत्यपि सामान्यधर्मप्रयोगे लिङ्गभेदे च (म. यूरख्यसकादयश्चे)त्यनेन समासो बोध्यः । न च तत्र विशेषणसमास एवेति वाच्यम् । तथा सति उपमानस्य विशेषणत्वेन पूर्वनिपातापत्तेः ।। ___ ननु सूत्रे सामान्याप्रयोगे इत्यस्यासत्त्वे पुरुषो व्याघ्र इव शूर इत्यत्र सामान्यधर्मस्य शूरत्वस्य सति प्रयोगे समासापत्तिरतस्तदुपात्तम् । न च शूरसापेक्षत्वेनाऽसामर्थ्यात्समासाऽप्राप्त्या प्रत्युदाहरणासङ्गतिरिति वाच्यम् । प्रधानस्य पुरुषस्य सापेक्षत्वेपि साम
Uऽभावाभावात् । विशेषणरूपोपमानस्य नित्यसापेक्षत्वेऽपि तत्सापेक्षत्वस्य न दोषावहत्वमिति बोध्यम् । उपमानत्वञ्च साधारणधर्मवत्त्वेन परिच्छेदकत्वम् । परिच्छेदकत्वञ्च साधारणधर्मवत्त्वेन ज्ञानविषयीभूतस्यैवेति । नव नित्यसापेक्षत्वस्य दोपाऽऽधायकत्वाऽभावाद्विशेषणस्योपमानस्य नित्यसापेक्षवदुपमेयस्यापि नित्यसापेक्षत्वे व समाससंज्ञासिद्धौ प्रत्युदाहरणे समासार्थ उपमानं नित्यसापेक्षमिति तत्सापेक्षत्वं न दोष. इत्यस्यैव ज्ञापकत्वमित्ययुक्तमिति वाच्यम् । यद्यपि उपमेयत्वस्य साधारणधर्मवत्वेन परिच्छेद्यत्वमेव तथापि उपमेयस्य साधारणधर्मवत्त्वं विधेयमेवेत्युपमेयस्य नित्यसापेक्षत्वा. भावादिति दिक् ॥
विशेषणं विशेष्येण बहुलम्-ननु विशिष्यते येन तद्विशेषणम् , अन्यस्माद्या. वर्त्तकमित्यर्थः । कर्तुः करणत्वविवक्षायां विपूर्वकाच्छिषेः ल्युटि रूपमित्याह-भेदकं समानाधिकरणेनेति--विशेषणविशेष्ययोरुभयोः सम्बन्धिविशिष्टत्वादन्यतरोपादानेनै. वाऽऽक्षेपस्य सम्भवादुभयोपादानं स्पष्टार्थमिति कैयटः । यत्तु समस्तपदद्वयजन्यबोधप्रकारस्य विशेषणविशेष्यधर्मद्वयस्य यत्र परस्परव्यभिचारस्तत्रैव समासो नान्यत्रैतदर्थमुभ-- योपादानमिति । तन्न । कैलासाद्रिः भावपदार्थः, तर्कविद्येतिप्रयोगाणामसङ्गत्यापत्तेः ।
युवाखलतिपलितवलिनजरतीभिः-ननु 'विशेषणं विशेष्येण बहुलमि' त्यनेनैव समाससिद्धौ प्रयोजनाऽभावाद्व्यर्थमेवैतत्सूत्रमित्यत आह-पूर्वनिपातनियमार्थं सूत्रमिति–पूर्वसूत्रण समासे युवतिशब्दस्य पूर्वप्रयोगानियमोऽनेन समासे तूक्तशब्दस्यैव पूर्वप्रयोग इति तदर्थमेव सुत्रमिति भावः । ___ ननु सूत्रे पुंल्लिङ्गयुवनशब्दस्यैवोपादानात्तस्य खलतीजरतीशब्दाभ्यां सामानाधिकरण्याभावेन समासाऽप्राप्त्या युवखलती युवजरतीत्यादि न स्यादित्याशंका समाधत्तेलिंगविशिष्टपरिभाषया युवतिशब्दोऽपि समस्यते इति-(प्रातिपदिकग्रहणे लि
विशिष्टस्यापि ग्रहणमिति परिभाषास्वरूपम् । प्रातिपदिकस्य ग्रहणे लिङ्गबोधकप्रत्ययविशिष्टस्य अपिशब्दात्केवलस्याऽपि ग्रहणम्बोध्यमिति तदर्थः । तथाचोक्तपरिभाषया सू. तोपात्तयुवञ्च्छब्देन युवतिशब्दस्यापि ग्रहणात्तस्याश्च खलत्यादिसमानाधिकरणत्वादुक्तप्र
Aho! Shrutgyanam