________________
तत्पुरुषसमासप्रकरणम् ।
जनयतीति व्युत्पत्या बाहुलकात्कर्तरि ल्युट् ॥
उपमानानि सामान्यवचनैः-उपमीयते वस्त्वन्तरं सादृश्येन परिच्छिद्यते येन तटुपमानम् । उपमानोपमेयसाधारणधर्मविशिष्टोपमेयवचनं सामान्यवचनम् । तथाच, उपमानबोधकानि सुबन्तानि उपमानोपमेयोभयसाधारणधर्म विशिष्टरूपसामान्यवचनैः समर्धसुबन्तैः सह समस्यन्ते इति सूत्रस्यार्थः । घनश्याम इत्याद्युदाहरणम् । इति प्राञ्चः।
शेखरकृतस्त, स्वसभिव्याहृतनिष्टमुपमानत्वमिवशब्दद्योत्यम् । इवशब्दसमीपोच्चारितघनादिपदार्थगतं यदुपमानत्वं सादृश्येन वस्त्वन्तरपरिच्छेदकत्वं तदिवशब्देन द्योत्यते इति तदर्थः । साधारणधर्मसम्बन्धस्योपमानोपमेययोर्बोधे तात्पर्य ग्राहकता च । एवञ्च, उपमानोपमेययोरभेदान्वयादेव, तयोः समानविभक्तिकत्वनियमः । समासे हूक्तार्थस्य समासशक्तिबलादूबोधः । उपमानत्वेनोपमानबोधकेत्यर्थास्वीकारे ससम्बन्धिकत्वात्सामान्यवचनैरित्येव उपमानेन समासलाभे उपमानग्रहणं स्पष्टमेव व्यर्थम् । एवमुत्तरसूत्रे उपमितमित्युपमानत्वेन बोधकमित्यर्थकम् । एवमेव भाष्यस्वरस इत्याहुः । तत्र हि यत्र किञ्चित्समानकु श्चिञ्च विशेषस्तत्रोपमानोपमेये भवत इत्युक्त्वा , उपमानं, हि नाम, अनितिज्ञानार्थमुपादीयते तत्समीपे यन्नात्यन्ताय मिमीते तदुपमानमेव, भुक्त्वा शस्त्रीश्यामेति सूत्रोदाहरणमित्युक्तम् । समानाधिकरणेनेति वर्तत इत्युक्तम् । तेन स्पष्टमेवोपमानोपमेययोरभेदान्चयो लभ्यत इति ॥
ननु धन इव श्याम इति विग्रहे घमश्यामशब्दयोरेकार्थवृत्तित्वरूपसमानाधिकरणत्वाऽभावात्समासो न स्यादत आह-इह पूर्वपदन्तत्सदृशे लाक्षणिकमिति--अत एव मृगीव चपला मृगचपलेत्यादौ पुंवद्भावः सिद्धयति । तत्र सन्निधानादुत्तरपदोपस्थापितमृगत्वचपलत्वद्वारकस्यैव सादृश्यस्यैव ग्रहणमिति । न चैवं कथमुपमानपरत्वमितिवाच्यम् । भूतपूर्वगत्या शक्यार्थमादाय तत्परत्वोपपत्तेः॥
ननु घनश्याम इत्याद्युदाहरणसिद्धयर्थमेव ( उपमानानि सामान्यवचनैरि ) ति सूर्य तस्य विशेषणसमासेनैव सिद्धौ सूत्रं व्यर्थमेवेति चेन्न । सति विशेषणसमासे कुब्जखन्जः खाकुब्जः इति वद्घनश्यामशब्दयोः पर्यायतया पूर्वनिपातापत्तेः तस्मात्पूर्वनिपाताय सू. त्रमावश्यकमित्याह-पूर्वनिपातनियमार्थ सूत्रमिति । 'तुल्यार्थतृतीयासप्तम्युपमानाव्यय' इति सूत्रे प्रविपदोक्तस्यैवास्य ग्रहणेन ग्रहणार्थमपि सूत्रस्याऽऽवश्यकत्वम् । अत एव, पुरुषव्याघ्र इत्युदाहरणम् । उपमानशूरव्याघ्राऽभिन्नः शूर इति बोधः ( एवं मयूरठर:सकादयश्चे) त्यनेन समासेनोपमानस्वरप्रवृत्तिरिति तत्त्वमिति ॥
उपमितं व्याघ्रादिभिः । उपमेयमुपमितम् । भूतकालो नाऽनविवक्ष्यते । उपमेयस्य सम्बन्धिशब्दत्वात्तेनोपमेयस्याऽऽक्षेपात्, उपमानभूतैर्व्याघ्रादिभिः सहोपमेयं समस्यते सति साधारणधर्मस्याऽप्रयोग इत्यर्थः । ननु उपमेयस्योपमानपरिच्छेद्यत्वादुपमानोपमेययोःसमभिव्याहारे उपमानस्य विशेषणत्वमेवेति तस्य विशेषणं विशेष्येणेति सूत्रेणैव पूर्वनिपातसिद्धौ विशेष्यस्य पूर्वनिपातार्थमिदं सुत्रमित्याह-विशेष्यस्य पूर्वनिपार्थसूत्रमिति । उपमितमित्येतत्पदस्वारस्येनोपमितस्योपमानेन सह नित्यसाकांक्षत्वेन च व्याघ्रादीनामुपमानत्वे एव उपमानोपमेययोः समानलिंगत्वे सत्येव चैतत्सूत्रप्रवृत्तिः । अत
Aho ! Shrutgyanam