________________
फक्किकारत्नमञ्जूषा |
स्य नित्यक्लीबत्वाभावात्समांशवाचको क्तशब्दस्य नित्यक्लीबत्वेन तस्यैवाऽत्र ग्रहणम् । प्रमाणञ्चात्र प्रकृतसूत्रस्थं नपुंसकग्रहणमेव । तथाहि, (पूर्वापराधरोत्तरमेकदेशिनैकाधिकरणे) इत्यन्त्रैवार्द्धशब्दस्य पाठात्समासोपपत्तौ पृथगर्द्धमिति योगविभागेन निर्देशान्नपुंसकत्वे ल. ब्धे पुनर्नपुंसकग्रहणं फलाभावाद्व्यथं सत् ज्ञापयति नित्यकलीबाई शब्द एह गृद्यत इत्याह- नित्यं क्लीबे स इति ।
५४
--
केचित्तु – नपुंसकग्रहणस्य नोक्तार्थं ज्ञापकत्वमङ्गीकुर्वन्ति किन्तु अर्चमिति निर्दशादेव नपुंसकत्वलाभे पुनस्तद्ग्रहणस्य सूत्रनिद्देशे लिङ्गाऽविवक्षार्थमेव । नच तस्य समांशवाचक नित्यकीब ग्रहणार्थत्वेन सामर्थ्य विरहादुक्तार्थज्ञापकत्वं न सम्भवतीति वाच्यम् । एचो हस्वविधाने अर्धेकारौकारयोविधानमाशय (नैव लोके नैत्र वेदे अर्द्ध एकारोऽई ओकारोऽस्तीति (एओङ ) (एच इगि) तिसूत्रस्थभाष्यप्रयोगात्समांशवाचिनोऽप्यर्द्धशह्रदस्य नित्यक्लीबत्वाभावात् । तथा च नित्यनपुंसकोऽर्द्धशब्द एकत्वविशिष्टेनाऽवयविना समस्यते इत्यर्थः ॥
ननु पिप्पल्या नियमेन षष्ठ्यन्तत्वात् (एकविभक्ति चाऽपूर्वनिपाते) इत्यनेनोपसर्ज नवे (गोत्रयोर) ति ह्रस्वत्वे अर्द्धपिप्पलि इति हस्वान्तप्रयोगापत्तिरित्यत आह-एकविभक्तावषष्ठ्यन्तवचनमिति । एकविभक्तिपदघटितसूत्रे यदेकविभक्तिपदन्तदषष्ट्यन्तबोधकमित्यर्थः । तेन पिप्पलीशब्दस्यानुपसर्जनत्वान्नोक्कापत्तिरिति बोध्यम् ॥
ननु (एकविभक्तावषष्ठ्यन्तवचनमित्यभ्युपगमे पञ्चानां खट्वानां समाहार इति विग्रहे खट्वाशब्दस्य षष्ठ्यन्तत्वादुपसर्जन संज्ञाप्रतिषेधेन हस्वत्वाप्रवृत्तावदन्तत्वाऽभावेन ( द्विगोरिति ङीपोऽप्रवृत्त्या पञ्चखट्वीति न स्यादित्याशङ्कय समाधत्ते - एकदेशिसमा - सविषयकोयमुपसर्जन संज्ञानिषेध इति । (अपथं नपुंसकमि) त्येतत्सूत्रे पञ्चखट्वीति भाष्यप्रयोगादेकविभक्तावित्यस्य संकोचादेतलभ्यते इति भावः । अद्धं पिप्पल्या इति विग्रहे, अर्द्धपिप्पलीति । परवल्लिङ्गत्वात्स्रीत्वम् । अनेन द्रव्यैक्य एव समासो विधीयते तेनापिप्पलीनामित्यत्र न समासो द्रव्यस्य बहुत्वात् । उक्तनियमाभावे तु समासे अर्द्धपिप्पलीत्येवेति दिक् ॥
द्वितीयतृतीयचतुर्थतुर्य्याणि । ननु वृत्तिकारेण यदुक्तमस्य पष्ठीसमासापवादत्वन्तदयुक्तमिति ध्वनयन्नाह - श्रन्यतरस्यां ग्रहणसामर्थ्यात्पूरणगुण इति निषेधं बाधित्वेत्यादि । नच द्वितीयशब्दस्य भागार्थकाऽनुप्रत्ययान्तत्वात्पूरणार्थकप्रत्ययान्तभिन्नत्वेन निषेधाप्राप्त्या पूरगुणेति निषेधं बाधित्वेति मूलोक्तमनुपपन्नमिति वाच्यम् । भागार्थ कान्प्रत्ययान्तस्याऽपि स्वार्थिकत्वेन पूरणार्थकत्वान्मूलोकोपपत्तेः । स्पष्टञ्चेदम्भाये । तत्र हि, अन्यतरस्यांग्रहणस्य पक्षे षष्ठीसमासमुक्त्वा कृतेऽप्यन्यरस्यांग्रहणे षष्टीसमासो न प्राप्नोति किं कारणम् । पूरणगुणेति निषेधात् । नैतत्पूरणान्तम् । अना एतत्प
वसन्नम् । व्यवहितं, स्वरभेदं प्राप्त इति यावत् । एतदपि पूरणान्तमेव । पूरणन्नामाऽर्थ - स्तमाह तीयशब्दः । अतः पूरणं योऽसौ पूरणान्तात्स्वार्थे भागेऽनू सोऽपि पूरणमेव । पूरणन्नामाऽर्थ इत्यस्य पूरणाऽभिन्नो योऽर्थस्तस्य प्रतिपादनमतः स्वार्थिकत्वात्तदन्तेनाप्यस्त्येवेत्यर्थः । पूरणशब्दे पूरयति स्वघटितसमुदायविशेषे विवक्षित संख्याप्रकारकप्रतीति
Aho! Shrutgyanam