________________
तत्पुरुषसमासप्रकरणम् ।
यत्तु (जनिकर्त्तः) (तत्प्रयोजको हेतुश्चे)तिनिदेशाभ्यां (तृजकाभ्यां कर्तरी)तिसमासनिषेधाऽनित्यत्वादुक्तप्रयोगोपपत्तिरित्याहुः केचित् , तन्न शेषषष्ठीसमासेनैवोक्तनिद्वेशद्वयोपपत्तौ सामर्थ्यविरहादुक्तसमासनिषेधाऽनित्यत्वज्ञापनस्यासम्भवादितिदिक् ॥
पूर्वापराधरोत्तरमेकेति-नन्वेकदेशशब्दस्याऽवयवे रूढत्वात्तस्य कर्मधारयत्वेऽपि तस्मात्मत्वर्थीयः (न कर्मधारयान्मत्वर्थीयः) इति निषेधात्कथं कर्मधारयात्मत्व. र्थीय इति वाच्यम् । कृष्णसर्पवानित्यत्रेवोक्तनिषेधस्य रूटेष्वेव प्रवृतेः । नच (एकगोपूवादि)त्यनेद ठञ् दुर्वार इति वाच्यम् । एतन्निदेशादेवेनेः प्रवृरित्याह-अवयविना सहेत्यादि ।
ननु ऊर्ध्वकाय इतिवत् (समुदाये हि प्रवृत्ताः शब्दा अवयवे प्रवर्तन्ते) इति न्यायात पूर्वकाय इत्यादिप्रयोगाणां कर्मधारयसमासेनैव सिद्धौ सूत्रमिदं व्यर्थमित्यत आह-बटीसमासापवाद इति । अयम्भावः, सूत्रसत्त्वे तेन समासे पूर्वशब्दस्य पूर्वप्रयोगे पूर्वकाय इत्युपपद्यते । सूत्राऽभावे पष्टीसमासे तु षष्ठ्यन्तस्य कायशब्दस्यैव पूर्वप्रयोगे कायपूर्व इत्यनिष्टप्रयोग आपद्यतेति तन्निवृत्त्यथं सूत्रमावश्यकमिति भावः । उक्तप्रयोगे पूर्वका. यस्येति विग्रहः । नच (अन्यारादि)ति सूत्रे दिशि दृष्टः शब्दो दिकशब्द इति व्याख्यानेन सम्प्रति दिग्वृत्त्यभाववतामपि योगे पञ्चमीविधानात्षष्ट्या दुर्लभतयोक्तविग्रहो दुर्लभ ___ वाच्यम् । (तस्य परमाम्रोडितमि)तिनिदेशेनाऽवयववाचिदिकशब्दयोगे पञ्चम्यभावज्ञापनात्षष्ट्युत्पत्तौ बाधकाऽभावेनोक्तविग्रहस्य सुलभत्वात् । सूत्रे एकदेशिनेत्यस्याऽभावे पूर्व नाभेः कायस्येत्यत्रापि समासापत्तिरिति तद्वयावृत्त्यर्थ्य तदुपात्तम् । नाभेर्यः पूर्वो भागः स कायस्याऽवयव इत्यर्थः। नाभेरित्यस्य दिग्योगलक्षणपञ्चम्यन्तत्वादन पूर्वस्य भागस्य नाभिस्वधिः, नत्वेकदेशिनीति न नाभ्या सह समासः । कायशब्देन तु पूर्वकायो नाभेरिति समासः स्यादेवेत्यलम् ।
ननु पूर्वपरेति सूत्रे पूर्वादीनामुपादानादेतेषामेवैकदेशानां समासः स्यादन्येषां न स्या. त्तथा मध्यान्हः, सायाह्न इत्यादिप्रयोगो नैवोपपद्यतेत्याशङ्क्याह-सर्वोऽप्येकदेशोऽ. न्हा समस्यत इति । पूर्वादिभिन्नशब्दस्याप्यहन्शब्देन समास इति तदर्थः । अत्रा थे (संख्याविसायपूर्वस्ये ) ति सुत्रमेव ज्ञापकं बोध्यम् । तथाहि, उक्तज्ञापनाऽभावेऽन्हस्य सायपूर्वत्वाऽभावेन सूत्राऽप्राप्त्या व्यर्थन्तदुक्तार्थ ज्ञापयतीति भावः । नच मध्यान्ह इत्यादे काय इति वत्कर्मधारयेणैव निर्वाहाज्ज्ञापकत्वाश्रयणं व्यर्थमिति वाच्यम् । ( अहःसर्वैकदेशे ) त्यादिविहितसमासान्तस्य ( अन्होऽन्ह एतेभ्य) इत्यन्हादेशस्य चैकदेशिसमासं विनाऽनुपपत्त्या ज्ञापकाश्रयणस्य सार्थक्यात् ॥
ननु उक्तज्ञापकादुक्तार्थज्ञापनेन मध्यान्ह इत्याद्युपपत्तावपि मध्यरात्र इति नोपपन्नमित्यत आह-केचित्तु सर्व एकदेशः कालेन समस्यते नत्वहनैवेति । संख्याविसायेति ज्ञापकस्य सामान्यापेक्षत्वेन सर्वस्याप्येकदेशस्य कालवाचकशब्देन समास इत्य. र्थज्ञापनेनोभयत्र निर्वाह इति भावः । नचैवं दिनमध्यो रात्रिमध्य इति नोपपद्यतेति वाच्यम् । ज्ञापकसिद्धस्याऽसार्वत्रिकत्वादिति भावः ॥
अद्धं नपुंसकम् । ननु ग्रामाझे नगरार्द्ध इति भाष्यप्रयोगात्खण्डवाचकार्द्धशब्द
Aho! Shrutgyanam